Book Title: Bharateshwar Bahubali Vrutti Part_2
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Educatio
बभूव । श्रीः प्रिया च तस्य । तयोः समुद्रदत्तः पुत्रः । पण्डितः स पुत्रो । बाल्येऽपि पुरोपात्तपुण्यप्राग्भारादखिला | वर्यकला जग्राह । इतः क्रमेण स समुद्रदत्तो यौवनं प्राप । इतश्च सोपारपुरे श्रेष्ठिनो नागदत्तस्य महिमानिधेर्नन्दयन्ती नाम्ना पुत्री बभूव । सा क्रमात् प्राप्तयौवना जिनधर्मकुशला शीलशालिनी बभूव । नागदत्तश्रेष्ठिना नन्दयन्ती पुत्री समुद्रदत्ताय विश्राणिता । क्रमात् सह देवाभिधेन मित्रेण सह क्रीडां कुर्वाणः सुखेन कालं नियति स्म समुद्रदत्तः । अन्यदा विदेशं गन्तुकामस्तातं प्रति प्राह- ताताहं द्रव्योपार्जनार्थं विदेशं यास्यामि । त्वमा| देशं देहि । पिता प्राह - कोटिमितं गृहेऽस्ति । द्रव्यं भुङ्क्ष्व त्वमत्रस्थ एव । ततः कः फलिते कल्पद्वौ निम्बपादपे व्रजति ? । ततः पुत्रः प्राह - ते तु कापुरुषा एव, भुञ्जते प्राग्भवा (भिर) जितम् ! । अभोग्या पैतृकी लक्ष्मीर्यौवने जननीव यत् ! ॥१॥ निशम्येति तनूजस्य, सगद्गदमदोऽवदत् । पित्राऽर्जितैर्धनैर्मत्वा (पुंस्त्वे), दुर्मदाः सन्ति भूरिशः॥ | खार्जितैर्विरला एव, दातारो भोगिनश्च ये ! ॥ २ ॥ (षट्पदी) यदा पितानुमतिं न दत्ते विदेशगमनाय तदा समुद्रो | रात्रौ विदेशं प्रति चचाल । तदा गच्छन् समुद्रदत्तस्तत् प्रियाचेष्टितं विलोकितुं छन्नं गृहान्तरजालिकायां स्थितः । तदा नन्दयन्ती जागरित्वा पतिमनालोक्य दुःखिताऽभूत् । स्मारं स्मारं गुणान् पत्युर्वियोगविधुरा सती गले पाशं
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398