SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Jain Educatio बभूव । श्रीः प्रिया च तस्य । तयोः समुद्रदत्तः पुत्रः । पण्डितः स पुत्रो । बाल्येऽपि पुरोपात्तपुण्यप्राग्भारादखिला | वर्यकला जग्राह । इतः क्रमेण स समुद्रदत्तो यौवनं प्राप । इतश्च सोपारपुरे श्रेष्ठिनो नागदत्तस्य महिमानिधेर्नन्दयन्ती नाम्ना पुत्री बभूव । सा क्रमात् प्राप्तयौवना जिनधर्मकुशला शीलशालिनी बभूव । नागदत्तश्रेष्ठिना नन्दयन्ती पुत्री समुद्रदत्ताय विश्राणिता । क्रमात् सह देवाभिधेन मित्रेण सह क्रीडां कुर्वाणः सुखेन कालं नियति स्म समुद्रदत्तः । अन्यदा विदेशं गन्तुकामस्तातं प्रति प्राह- ताताहं द्रव्योपार्जनार्थं विदेशं यास्यामि । त्वमा| देशं देहि । पिता प्राह - कोटिमितं गृहेऽस्ति । द्रव्यं भुङ्क्ष्व त्वमत्रस्थ एव । ततः कः फलिते कल्पद्वौ निम्बपादपे व्रजति ? । ततः पुत्रः प्राह - ते तु कापुरुषा एव, भुञ्जते प्राग्भवा (भिर) जितम् ! । अभोग्या पैतृकी लक्ष्मीर्यौवने जननीव यत् ! ॥१॥ निशम्येति तनूजस्य, सगद्गदमदोऽवदत् । पित्राऽर्जितैर्धनैर्मत्वा (पुंस्त्वे), दुर्मदाः सन्ति भूरिशः॥ | खार्जितैर्विरला एव, दातारो भोगिनश्च ये ! ॥ २ ॥ (षट्पदी) यदा पितानुमतिं न दत्ते विदेशगमनाय तदा समुद्रो | रात्रौ विदेशं प्रति चचाल । तदा गच्छन् समुद्रदत्तस्तत् प्रियाचेष्टितं विलोकितुं छन्नं गृहान्तरजालिकायां स्थितः । तदा नन्दयन्ती जागरित्वा पतिमनालोक्य दुःखिताऽभूत् । स्मारं स्मारं गुणान् पत्युर्वियोगविधुरा सती गले पाशं For Private & Personal Use Only jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy