________________
| श्रीभरतेश्वरवृत्तौ १२ विभागे
॥ ३५७ ॥
Jain Education In
| प्राह - धन्याऽसौ स्वामिनी ममानिन्द्या या एवंविधं ज्ञानपञ्चमीतपः कुर्वाणा विद्यते । मया तु तपः कर्तुं न | शक्यते । प्रवर्तिनी प्राह - भद्रे ! तर्हि स्वाधीनं शीलं पालय, येन त्वं सुखिनीभव । - " विधेहि परपुं| स्त्यागं, यावज्जीवं विवेकिनि ! । तथाऽष्टमीचतुर्दश्योः, स्वभर्तुः परिवर्जनम् ! ॥ १ ॥” ग्रहीत्वाऽभिग्रहं दृष्टा दुर्गिला | पत्युः पार्श्वे प्राह - मया शीलव्रतमष्टमीचतुर्दश्योर्गृहीतम् । दुर्गतः प्राह - यदि त्वया गृहीतं शीलं तर्हि ममापि भवतु । कर्मलाघवतो दुर्गिलायुतो दुर्गतः शुद्धशीलं पालयामास । क्रमेण तौ च प्रापतुः सम्यक्त्वम् । दुर्गिला क्रमागुरुपार्श्वे ज्ञानपञ्चमीतपो गृहीत्वा पालयामास । वायुषः क्षये द्वावपि सौधर्मे त्रिदशावभूताम् । दुर्गतजीवस्ततो देवलोकाच्युतस्त्वं (अ) जितसेनोऽभवः । दुर्गिलाजीवस्तु एषा शीलवती जाता । पञ्चमीज्ञानाराधनपुण्याराधनात् । जातिस्मृत्या तं पूर्वभवं स्मृत्वा वैराग्यं प्राप्तौ दीक्षां ललतुः । प्रपात्य संयमं पञ्चमं स्वर्गं गतौ । ततश्रयुतौ तावपि मनुष्यभवं प्राप्य सर्वकर्मक्षयान्मुक्तिं गमिष्यतः । इति शीलवतीकथा समाप्ता ॥ ३६ ॥ पालयन्निर्मलं शीलं, भव्यो भव्याशयः सदा । नन्दयन्तीव लभतेऽनुत्तरां सुखसन्ततिम् ॥ १ ॥ तथाहि - पोतनपुरे सुरपुरसुन्दरे नरविक्रमो जाग्रद्विक्रमो भूपतिः करोति राज्यम् । तत्र सागरपोतो वणिग्
For Private & Personal Use Only
शीलवतीकथा ।
॥ ३५७ ॥
Inelibrary.org