SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ शीलवत्या वर्णयामास । त्वं मम भगिनीति कृत्वा वस्त्राभरणादिभिः परिधापयामास तां सभर्तृकाम् । ततः सर्वलोकाश्चमत्कृता जगुः-असौ सतीतमा विद्यते ! । इतोऽजितसेनस्तया प्रियया समं भोगान् भुञ्जानश्चिरं । सुख्यभूत् । लक्ष्मीधरचन्द्रसेनाहौ पुत्रौ जातौ तयोः । धर्म जिनोक्तं कुरुतस्तौ । अन्यदा तत्र पुरे दमघोषसूरय । आगताः। (अ)जितसेनः सप्रियो धर्म श्रोतुं तत्र गतः। तथाहि-"धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्बुवं (बलं) धर्मेणैव भवन्ति निर्मलयशोविद्यार्थसम्पत्तयः । कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगु पासितो भवति च स्वर्गापवर्गप्रदः ॥ १॥” देशनान्ते मुनि शीलवती पप्रच्छ-मया किं कृतं पूर्वभवे ? । ज्ञानी । IN प्राह-कुशपुरे श्रावकः सुलसाभिधोऽभवत् ! । तस्य भार्या सुयशा बभूव । तस्य दुर्गतनामा भृत्यः प्रकृत्या I भद्रकोऽभवत् । दुर्गिला प्रिया तस्याभवत् । साई सुयशसाऽन्येचुर्दुर्गिला बतिनीपार्श्वे ययौ । सुयशसं पुस्तक-11 पूजां कुर्वाणां वीक्ष्य दुर्गिला प्राह-आर्थे ! किमद्य पर्वेति ? । साध्वी प्राह-अद्य श्रुततिथिर्विख्याता ज्ञानपञ्चमी विद्यते ! । -“य इह श्वेतपञ्चम्यामुपवासपरायणः । पुस्तकाभ्यर्चनापूर्व, कुर्याज्ज्ञानप्रभावनाम् ॥ १ ॥ स NI प्रेत्य सुखसौभाग्यभाग्यबुद्धयादिवैभवम् । प्राप्य क्रमेण लभते, शुद्धशीलपरो नरः! ॥२॥" श्रुत्वेति दुर्गिला JainEducati , For Private Personel Use Only jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy