SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ कथानकम्। ॥३५८॥ ॥ श्रीभरते- क्षप्तुं लग्ना।जगाद च-यदि मे पति गमिष्यत्यधुना तदा मया मर्तव्यमेव । एवं प्रियां दुःखिनी दृष्टा रतिदानेन नंदयंती वा सन्तोष्य समुद्रः प्राह-अहं विदेशं गमिष्यामि, त्वया कस्याप्यने न वक्तव्यमित्यापृच्छय प्रियां समुद्रदत्तोऽब्धि-IN मार्गे लक्ष्म्यर्थं चचाल । इतोऽन्तर्वत्नी नन्दयन्ती मासत्रयं निनाय । तां सगां वीक्ष्य श्वश्रूर्दध्यौ श्वशुरश्चपुत्रस्तु विदेशं गतः। इयं वधूरन्यादृशी दृश्यमानाऽस्ति । न ज्ञायते स्त्रीणां वरूपम् । यतः-"बाह्याकारस दाचारवृत्त्या स्त्रीषु न विश्वसेत् ! । दुरन्तपरिणामाः स्युः, किम्पाकफलवत् खलु ॥ १॥ तन्नूनं परिहार्यैषा, INश्वपचीवात्मपङ्गितः। निष्कलङ्के कुलेऽस्माकं, कलङ्कश्चानया ददे ॥ २ ॥” विमृश्येति श्रेष्ठी स्नुषां तां जिहा सुनिष्करुणाभिधं पुरुषं प्रति रहः प्राह-एतां मत्स्नुषां वने मुक्त्वाऽऽगच्छ । ततः पुरुषस्तां दूरतो बने मुक्त्वा । पश्चाहवले । तावदाकस्मिकोत्पातमीता महासती मूलच्छिन्नवल्लीव पतिता क्षितौ । पुनः सचेतनीभूय जगौहा! हा !! दैव ! केनापराधेनाहं श्वशुरेण त्यक्ता ? । मया किं कृतं कर्म ? । एकस्तावद्भर्ता मां त्यक्त्वा विदेशं गतः। ॥ ३५८ ॥ द्वितीयं त्वहं वने त्यक्ता । मया मनागपि शीलं न खण्डितम् !। अस्मिन् भवे समुद्रं पतिं मुक्त्वाऽन्यो जनः सर्वोऽपि मम भ्राताऽस्ति ! । ततः सा नन्दयन्ती विलपन्ती भृगुपुरस्वामिना तत्रागतेन पद्मभूपेन दृष्टा । मम orl Jan Educationala For Private Personel Use Only Mainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy