Book Title: Bharateshwar Bahubali Vrutti Part_2
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥ श्रीभरतेश्वरवृत्तौ २ विभागे
॥ ३५६ ॥
Jain Educatio
नेषूपवेशिताः ।, प्रक्षालिताश्चन्दनेन चर्चिताश्च । इतो राजा प्राह-भो मन्त्रिन् ! उत्सूरं जायमानमस्ति । भोक्तुं तव गृहे रसवती निष्पाद्यमाना न दृश्यते । मत्रिणोक्तं - मत्प्रियावशंवदाश्चत्वारो यक्षाः सन्ति । ते सर्वां रसवतीं मार्गितां दास्यन्ति । ततो यावद्भोजनार्थं राजोपविष्टः सपरिच्छदः । इतो यक्षपार्श्वेन रसवतीमानीय मार्गयित्वा । राजा भोजितः । ततो राजा जगौ - भो मन्त्रिन् ! ये यक्षाः सन्ति ते प्रियाभीष्टरसवतीप्रदाः । ते च यद्यस्माकं पार्श्वे भवन्ति तदा मार्गे रन्धनादिक्केशं विना चमूर्भोज्यते । ततो मन्त्री जगौ - प्रियां पृष्ट्वा ते तुभ्यं दास्यन्ते । इतः शीलवत्योक्तं यक्षाणां चतुर्णामग्रे अहं तदा मोचयिष्यामि यदि मदुक्तं करिष्यथ । ततस्तैरुक्तं यत्त्वया प्रोच्यते तदस्माभिः करिष्यते । शीलवत्योक्तं - यूयं मञ्जूषामध्ये तिष्ठत । मञ्जूषा भूपाय दास्यते । यावद्राजा एकं प्रयाणकं कृत्वा मध्याह्ने यावद्भोजनं मार्गयति तावद्भवद्भिर्न वक्तव्यं । यद्यन्तरा जल्प्यते भवद्भिस्तदा वो मरणं भविष्यति । एवं भवतु इति तैरुक्ते सा मञ्जूषा भूपाय दत्ता । भूपो हृष्टो यावदेकं प्रयाणकं कृत्वा मध्याह्ने रसवतीं याचते तावत्ते जगुः - वयं कृशगात्रा अत्र स्थिताः स्मो । भोजनं विना तुभ्यं कुतो दीयते ? । ततो राजा शब्दैस्तानुपलक्ष्य बहिः कर्षयामास । ततो राज्ञा पृष्टास्ते खं रूपं शीलवत्याः शीलख रूपं च जगुः । ततो राजा हृष्टः पश्चादेत्य शीलं ।
Arnal
For Private & Personal Use Only
शीलवतीकथा ।
॥ ३५६ ॥
Jainelibrary.org

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398