Book Title: Bharateshwar Bahubali Vrutti Part_2
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥ श्रीभरते
श्वरवृत्ता २ विभागे
॥ ३५४ ॥
Jain Education In
यतस्तैः कृषिभिः पूर्वं भक्षितं क्षेत्रं, द्विगुणवृद्धिधान्यग्रहणात् । श्रेष्ठी प्राह-यत् नदीं पयःपूर्णां दृष्ट्वा मयोक्तं-वधु ! | उपानहावुत्तारय । तत्र त्वं नोपानहावुत्तारितवती । तदा तत्र किं कारणम् ? । स्नुषा जगौ - नयां कण्टककीटादेर्भयं दृष्ट्वा । दृष्टेरगोचरे को नामाल्पकृते कायमपाये पातयेत् ? । इत्यादिपुत्रजायोक्तियुक्तिप्रीणितमानसः । क्रमात् प्राप गृहं श्रेष्ठी, प्रेक्ष्यमाणः पुरीजनैः ॥ १ ॥ ततो वध्वा तानि भूषणानि घटस्थानि दर्शितानि श्वशुराय । ततः श्रेष्ठिना | सन्मान्य सा स्नुषा सर्वस्वस्वामिनीं कृत्वा स्थापिता । क्रमादायुषः क्षये श्रेष्ठी परलोकं गतः । श्रेष्ठिप्रियाऽपि स्वर्गं गता । ततोऽजितसेनः कुटुम्बनायको बभूव । इतो राजा अरिमर्दन एकोनपञ्चशतीं मत्रिणां मेलयित्वा पञ्चशतीं पूर्णां चिकीर्षुः प्रत्येकं नागरान् समाकार्य जगौ - 'यो मां हन्ति स्वपादेन, को दण्डस्तस्य युज्यते ?' सर्वेऽप्यूचुर्जनाः तदा-शिरश्छेदं सर्वदण्डं सोऽर्हति । इति तेषां नागराणां मुखाच्छ्रुत्वा राजा यदा न मन्यते स्म तदा | शीलवतीवितीर्णबुद्धयाऽजितसेनो भूपस्याग्रे गत्वा भूपचिन्तितं न्यवेदयत् । ततो राज्ञा सर्वाभरणत्रातं दत्त्वा | तस्मै सन्तोषितोऽजितसेनः । ततो राजा तं बुद्धिमन्तं मत्वाऽजितसेनं मन्त्रिमुख्यं मत्रिषु स्थापयामास । अन्यदा | राजा षड्विधं बलं गृहीत्वा पर्यन्तदेशभूपालं सिंहं जेतुं चचाल । तदा राज्ञा सार्द्धमा कारितो ऽजितसेनोऽपि चिन्ता -
For Private & Personal Use Only
शीलवती
कथा ।
॥ ३५४ ॥
helibrary.org

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398