SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते श्वरवृत्ता २ विभागे ॥ ३५४ ॥ Jain Education In यतस्तैः कृषिभिः पूर्वं भक्षितं क्षेत्रं, द्विगुणवृद्धिधान्यग्रहणात् । श्रेष्ठी प्राह-यत् नदीं पयःपूर्णां दृष्ट्वा मयोक्तं-वधु ! | उपानहावुत्तारय । तत्र त्वं नोपानहावुत्तारितवती । तदा तत्र किं कारणम् ? । स्नुषा जगौ - नयां कण्टककीटादेर्भयं दृष्ट्वा । दृष्टेरगोचरे को नामाल्पकृते कायमपाये पातयेत् ? । इत्यादिपुत्रजायोक्तियुक्तिप्रीणितमानसः । क्रमात् प्राप गृहं श्रेष्ठी, प्रेक्ष्यमाणः पुरीजनैः ॥ १ ॥ ततो वध्वा तानि भूषणानि घटस्थानि दर्शितानि श्वशुराय । ततः श्रेष्ठिना | सन्मान्य सा स्नुषा सर्वस्वस्वामिनीं कृत्वा स्थापिता । क्रमादायुषः क्षये श्रेष्ठी परलोकं गतः । श्रेष्ठिप्रियाऽपि स्वर्गं गता । ततोऽजितसेनः कुटुम्बनायको बभूव । इतो राजा अरिमर्दन एकोनपञ्चशतीं मत्रिणां मेलयित्वा पञ्चशतीं पूर्णां चिकीर्षुः प्रत्येकं नागरान् समाकार्य जगौ - 'यो मां हन्ति स्वपादेन, को दण्डस्तस्य युज्यते ?' सर्वेऽप्यूचुर्जनाः तदा-शिरश्छेदं सर्वदण्डं सोऽर्हति । इति तेषां नागराणां मुखाच्छ्रुत्वा राजा यदा न मन्यते स्म तदा | शीलवतीवितीर्णबुद्धयाऽजितसेनो भूपस्याग्रे गत्वा भूपचिन्तितं न्यवेदयत् । ततो राज्ञा सर्वाभरणत्रातं दत्त्वा | तस्मै सन्तोषितोऽजितसेनः । ततो राजा तं बुद्धिमन्तं मत्वाऽजितसेनं मन्त्रिमुख्यं मत्रिषु स्थापयामास । अन्यदा | राजा षड्विधं बलं गृहीत्वा पर्यन्तदेशभूपालं सिंहं जेतुं चचाल । तदा राज्ञा सार्द्धमा कारितो ऽजितसेनोऽपि चिन्ता - For Private & Personal Use Only शीलवती कथा । ॥ ३५४ ॥ helibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy