________________
Jain Education I
जनाकुलमपि क्षोणीपीठं भाति ह्यरण्यवत् ॥ १ ॥ उद्वसप्रायो ग्रामो दृष्टः । तत्र वसन्नसौ ग्रामोऽस्तीति कथं स्नुषे ! त्वयोक्तमिति श्रेष्ठिना पृष्ठे खुषा प्राह - तस्मिन् ग्रामे एकं मम मातुलगृहमभूत् । तेनोक्तं मया - असौ | ग्रामः सप्तभिः पाटकैर्वसति । पुनः श्रेष्ठी प्राह-वटच्छायां मुक्त्वा यदातपे स्थिता तत्र किं कारणम् ? । वधूः प्राह - वायस श्रेइटारूढो, वनिताशिरसि श्रवेत् । षण्मासाभ्यन्तरे पत्युस्तदाऽनर्थो भवेन्महान् ॥ १ ॥ वृक्षमूले च सर्पादिभयाद्या दोषराशयः । तेनाहं च वटच्छायां त्यक्त्वाऽन्यत्र स्थिताऽऽतपे ॥ २ ॥ ततः श्रेष्ठी जगौ - साधु साधु कुलाधारे !, सर्वभावविचक्षणे । वृद्धत्वेन वयं वीतमतयो बोधितास्त्वया ! ॥ १ ॥ ततः श्रेष्ठी प्राह-यत्र मया सुभटो वर्णितस्तत्र त्वया कातरोऽयमिति कथं ज्ञातः । स्नुषा प्राहपृष्ठिस्थप्रहारान् दृष्ट्वा मयोक्तं - कातरोऽयं भटः । यदि सुभटोऽयं भवति तदा देहाग्रभागे प्रहारा लगन्ति । श्रेष्ठी प्राह-वधु ! यन्मया मुद्रक्षेत्रे परिपाकदशापन्ने वर्णिते सति त्वयोक्तं - यदि भक्षितं नाभविष्यत्तदा वरं । तच्च जग्धं न दृष्टं । तत्र को हेतुर्जग्धकथने ? | वधूः प्राह - एके कौटुम्बिका दुस्याः सन्तः द्विगुणवृद्धया कणादि गृहीत्वा कृषिं कुर्वन्ति । तेषां यावद्धान्यं निष्पन्नं गृहे आयाति तदा ते धान्यदायकाः सर्वं धान्यं गृहीत्वा यान्ति ।
For Private & Personal Use Only
inelibrary.org