________________
॥ श्रीभरतेश्वरवृत्तौ २ विभागे
॥ ३५३ ॥
Jain Education In
ब्रूते - करीरस्तम्बस्याधो दश लक्षाणि काञ्चनं समस्ति । ततो मयोक्तं काकं प्रति - पूर्वं मयैकं श्वशुरस्य न रुचितं कृतं । यदि द्वितीयं करोमि तदा मे मरणं स्यात् । कृतप्रहारसम्पातो जायते हि यथाऽङ्गिनां क्षते क्षारमिवात्र ममापि जल्पिते दुःखं भवति च । उत्पाट्य विलोक्यतामिदम् । वधूक्तं श्रुत्वा स्थविरः ससम्भ्रमं कर्णौ धूनयन् जगौ - किं वत्से ! सत्यमेतत्ते प्रोक्तं ?, साऽवग्- संशयोऽत्र करीरे ?, यदि न मन्यते तदाऽमुं करीरमेवोत्पाट्य विलोक्यताम् । ततः करम्बबलिप्रदानपूर्वं परिकरं बद्ध्वा वृद्धोऽपि लोभात्तरुण इव कुद्दालेन करीरस्याधः खनितुं लग्नः । यतः - " दन्तैरुश्चलितं धिया तरलितं पाण्यंघ्रिणा कम्पितं, दृग्भ्यां कुड्मलितं बलेन गलितं रूपश्रिया प्रोषितम् । प्राप्तायां यमभूपतेरिव महाधाट्यां जरायामियं, तृष्णा केवलमेककीव सुभटा हत्पत्तने नृत्यति ॥ १ ॥” तत्र स्वर्णकुम्भाश्चत्वारो निर्गताः । ततः श्रेष्ठी दध्यौ - अहो मूर्तिमती लक्ष्मीरेवासौ मगृहे वधूः । काचभ्रान्त्या मरकतमिवावगणिता मया ॥ १ ॥ एवं ध्यात्वा श्रेष्ठी तां क्षमयामास खापराधप्रकाशनपूर्वम् । ततस्तत्क्षणाच्छ्रेष्ठी रथं वालयामास । पश्चादागच्छन् श्रेष्ठी प्राह- अयं वसन् ग्रामः सप्तपाटकैस्त्वयोसः कथं प्रोक्तः १ । स्नुषा जगौ - तात ! यत्र बहवोऽपि लोका बसन्ति, आत्मीयः कोऽपि नास्ति, स शून्य एव कथ्यते । यतः - "स्वभावस्नेहसान्द्रेण, विनैकेन प्रियात्मना ।
For Private & Personal Use Only
शीलवती
कथा ।
॥ ३५३ ॥
inelibrary.org