SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ शीलवती जगौ-भो काक! पूर्वमेकेन मुधाऽलीकेन पत्या सहाहं वियुक्ताऽभूवं । यदि पुनरपि किमपि क्रियते | जलप्यते वा तदा न मिलामि मातापित्रोरपि । जागरूकः श्रेष्ठी तस्या वचः श्रुत्वा पप्रच्छ-किं वत्से ! दुर्विनीते त्वयेत्युदीर्यते ? । सा प्राह-यदि सत्यं प्रोच्यते तदा दोषाय मे गुणा भवन्ति । यत-"कुसुमनिचयः शाखाभङ्गं तनोति वनस्पतेरलसगमनं बऱ्याटोपे वधाय शिखण्डिनः। चतुरगमनो यो जात्योऽश्वः स गौरिव वाह्यते, गुणवति जने प्रायेणैते गुणाः खलु वैरिणः ॥ १ ॥” बाल्ये बन्धूपरोधेन सर्वशास्त्राणि भणन्ती पक्षिरुताह्वयं शास्त्रं साथ साम्नायमहमध्यैषि। गिरा गारुडिकस्येव, सर्पदष्ट इव क्षणात्। उत्थाय चोद्यतः श्रेष्ठी, वधूपार्श्व समीयिवान् । ॥१॥ श्रेष्ठी जगौ-वधु ! मया योऽपराधः कृतस्त्वयि स क्षम्यताम् । ततः स्नुषाऽवक्-तदाऽहं तव जाग्रतः शिवा| शब्दं बहिः श्रुत्वा घटं मस्तके कृत्वा च नदीं गता। शिवाशब्दज्ञानेन साभरणं मृतकमाकृष्य जलमध्यतस्तदङ्गा-INM लक्षमूल्यान्याभरणान्यादाय घटे क्षिप्त्वा तत्रैव नदीतटे रहसि खातं कृत्वा तत्र तं घटं सन्न्यस्य पश्चात् खगृहमह-d मागाम् । अनेन दुश्चेष्टितेनाहं त्वयाऽत्रानीता त्यक्तुं यद् एतदद्भुतकर्मण एव विलसितम् । यतः-"कृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि ।अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥१॥साम्प्रतमेष वायसः करम् याचमानो Jain Educatan 10 For Private & Personal Use Only hjainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy