________________
॥ श्रीभरते. श्वरवृत्ती २ विभागे
॥ ३५२॥
एवं भावयन् मार्गे कस्यचिन्न्यग्रोधपादपस्याधस्तात् क्वापि श्रेष्ठी पथि स्थितः । वधूरपि वटच्छायां परिहत्य दूरत शीलवती
कथा। आतपे पटमावृत्य तस्थौ । श्रेष्ठी जगौ-नुषे ! छायायामागच्छ । वधूः श्रुत्वाऽपि श्रेष्ठिवचः तत्रैव स्थिता । दध्यौ । च श्रेष्ठी-उपदेशानहेयं कुशिष्यवत् । तत एकं जनसङ्खलं पुरं दृष्ट्वा श्रेष्ठ्यक्-कीदृशं पुरं सप्तभिः पाटकैर्वसदस्ति । वधूराह-अयमुहसग्रामः । श्वशुरेण चिन्तितं-मदुक्तमेषाऽन्यथा कुरुते एव । ततः क्वापि गतः श्रेष्ठी, त्रिचतुरांस्तृणकुटीरान् वीक्ष्य प्राह-उद्वसोऽयं ग्रामः। ततः शीलवती विमृश्येति जगौ-जनतासङ्कुलमिदं स्थानम्। ततः श्रेष्ठी जगौ-सर्वथा विपरीतेयं कुशिक्षिततुरङ्गवत् । अनर्थे रभसा पातयिष्यति मां हठात् किल। एवं श्रेष्ठी यावद् दध्यौ तावन्मातुलः शीलवत्यास्तत्राभ्येत्य सगौरवं श्रेष्ठिनं स्वगृहे नीत्वा भोजनाद्यैरुपाचरत् । साग्रह स्थाप्यमानोऽपि तेन वणिजा दत्तकरम्बकशम्बलयुतः श्रेष्ठी सोत्सुकोऽग्रतः प्रतस्थे सवधूकः । ततो मार्गे चलन् । श्रेष्ठी कस्यचित्करीरवृक्षस्य पार्श्वे तस्थौ। वटस्याधः करम्ब भुक्त्वा सुप्तः। स्नुषा तु भोक्तुं यावल्लग्ना तावद्वायसो ३५२ ॥ रौति स्म ।तं वायसं रुदन्तं श्रुत्वा स्नुषा प्राह-भो काक ! किं कर्करायसे ? । तव यन्मनसि वर्तते तदहं जानामि। श्रेष्ठी सुप्तोऽपि वधूवचः श्रुत्वा दध्यौ-इयं काकादीनामपि भाषितं जानाति । पुनः पुनः काकस्याभिप्रायं ज्ञात्वा
Jain Educati
o
nal
For Private & Personel Use Only
IMMainelibrary.org