________________
तेऽन्यजनैः खलु !॥१॥ स्यन्दनं प्रगुणीकृत्य, शीलवत्या समन्वितः। स्वयं रत्नाकरः श्रेष्ठी, चचाल कृतमङ्गलः॥२॥ श्रेष्ठी मार्गे गच्छन् नद्यामुपेतायां शीलवतीं प्रति प्राह-पादत्राणे परित्यज्य, वत्से ! संचर पाथसि । किञ्चिद्विचार्य साऽग्रतः उपानद्युता नदीमुत्तीर्णा । श्रेष्ठी मेने तदा दुर्विनीतेयं शीलवती । पुरतो गच्छन् श्रेष्ठी मुद्गक्षेत्रं फलितं । दृष्ट्वा जगौ-अहो अस्य क्षेत्रे स्वामिनः सस्यश्रियः करगोचरा भविष्यन्ति । मुषाऽभाणीत्-यदि जग्धं नाभविष्यत्तदा तातोक्तं सर्व सत्यमभविष्यत् । श्रेष्ठी दध्यौ-इयमसम्बन्धं कथं भाषते ? । क्षेत्रं तु फलितं दृश्यमानमस्ति । क्षेत्रं भक्षितं तु मनाग न दृश्यते । समृद्ध्या धनदं द्रङ्ग, सरङ्गं जनसङ्कुलम् । पुरः पुरमथो वीक्ष्य, सश्लाघं मूर्ध धूनवान् ॥ १॥ स्नुषया तदोक्तं यदीदमुद्वसनं न भवति तदा श्लाघ्यते। ततः श्रेष्ठिना चिन्तितम्असौ सुषा मामेवं हसति । ततो हास्यफलं प्राप्स्यति । अग्रे सुभटमालोक्य, प्रहारभरजर्जरम् । श्रेष्ठी श्लाधितवानस्य, शौण्डीयं साधु साध्विति ॥ १॥ दृष्ट्वा तं सुभटं शीलवती प्राह-साध्वस्ति कुट्टितस्तावत्पामरश्चैव कातरः। । श्रेष्ठी दध्यौ-स्नुषेयं मयि प्रतिकूला विद्यते । यद्यदहं जल्पामि तत्तदसावन्यथा करोति । यतः-"सर्वस्यात्मा
गुणवान् सर्वः परदोषदर्शने कुशलः । सर्वस्य चास्ति वाच्यं न चाऽऽत्मदोषान् वदति कश्चित् ॥ १ ॥
Jain Educatia
For Private & Personel Use Only
YAMjainelibrary.org