________________
चान्तमना मनाक् शीलवत्या महासत्या पृष्टः स्पष्टं समभाषत । यद्यपि त्वं सुशीलाऽसि, तथाप्येकाकिनी गृहे। विहाय सह भूपेन, यियासोमें न निर्वृतिः॥१॥शीलवती जगौ-राजकार्याणि कर्तव्यानि यथा तथा। शीलं तु मदीयं निश्चलं वर्तते । देवदानवाद्यैरपि शीलं खण्डयितुं न शक्यमित्यवधार्यमित्युक्त्वा सा प्रत्ययार्थं पुष्पमाला
पत्युः कण्ठे क्षिप्त्वा शीलवती प्राह-यावन्मदीयं शीलं निश्चलं भविष्यति तावदियं पुष्पमाला त्वया कण्ठस्था । Fall अम्लाना द्रक्ष्यते । एवं प्रियावचः श्रुत्वा ततोऽजितसेनो राज्ञा सह निश्चिन्तः सन् सैन्येऽचालीत् । भूपस्य । नाच मिलितः । राजा तदानीं कुसुमवर्जितायामटव्यां (अ)जितसेनकण्ठे पुष्पमालामम्लानां वीक्ष्य पप्रच्छ-कुत
इयमीदृशी पुष्पमाला तव कण्ठे दृश्यते एवंविधे वने ?। मत्री प्राह-ममेयं पुष्पमाला प्रियया कण्ठे क्षिप्ता । तस्याः शीलप्रभावान्न म्लायति । ततो राजा शीलवत्याः शीलवरूपं श्रुत्वा चमत्कृतः। अन्यदा नर्मपात्राणां नृणां पार्श्वे शीलवत्याः शीलं वर्णयामास । ततः कामाङ्कुरो भूपानुगः सासूयं प्राह-कुतः || शीलं चञ्चलदृशां ?, ततो ललिताङ्गो जगौ-सत्यं कामाकुरोदितं, रतिकेलिरभाषिष्ट-संशयः कोऽत्र दृश्यते ?, अशोकः प्राह-अहं यामि शीलवतीशीलभ्रंशाय ! । कौतुकी राजा बहु धनं दत्त्वा प्रैषीदशोकम् ।
मरते. ६०
Jain Education R
onal
For Private & Personel Use Only
MOHainelibrary.org