SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्तौ १२ विभागे ॥ ३५५ ॥ Jain Education भृत्योऽवधूतवेषं कृत्वा अशोको वर्यनेपथ्यभृत् नन्दनपुरे गत्वा शीलवत्या गृहस्यासन्नं स्थानं गृहीत्वा तस्थौ । अशोकस्तत्रस्थो वर्यवेषभृत् पञ्चमोद्वारं गीतमुद्गिरन् रुचिराङ्गकः सञ्चचार पुरस्तस्याः । बहुप्रकारान् विकारान् कुर्वन्तं तं सा सती वीक्ष्य दध्यौ शीलवती - ममासौ शीलध्वंसं करिष्यति । नूनमिच्छति मूर्खोऽसौ, क्रष्टुं केसरिकेसरान् । विविक्षति हतवान्तः, सुहुतं वा हुताशनम् ॥ १ ॥ इति ध्यात्वा सा निर्विकल्पाऽपि नेत्रकोणेन तं विलोकते । ततोऽशोको हृष्टो दध्यौ - सिद्धं मम समीहितमस्याः सम्मुखविलोकनात् । ततो दूतीं प्रस्थापयामासाशोकस्तस्याः पार्श्वे । सा तत्र गत्वा शीलवत्या अग्रे प्राह-भद्रे ! तव गतो भर्ता समं राज्ञा । न ज्ञायते तस्य किं भविष्यति ? । गतो वासरो नायाति । भोगं विना यौवनं तव निष्फलं गच्छदस्ति । शीलवती जगौ - कुलस्त्रीणां न युज्यतेऽन्येन पुरुषेण सह वार्तामपि कर्तुं । किं पुनरन्यसङ्गमः १ । पुनः पुनः कथयन्त्या तया दूत्या शीलवत्या मानितं । स प्रेष्यतामत्र पञ्चमे दिने । ततो दूतिकया शीलवत्याः स्वरूपे कथिते अशोको हृष्टः । अर्धलक्षं स्वर्णस्य प्रथमं प्रेषितं तस्या गृहे । तेन शीलवती खशीलरक्षार्थं प्रच्छन्नमपवरकस्य मध्ये गर्ता खानयामास । तस्या उपरि पर्यङ्कं निष्केवलतन्तुस्यूतं सोत्तरच्छदं चकार सा । पञ्चमेऽहनि स स्वर्णस्य सार्द्धं लक्षमादाय For Private & Personal Use Only शीलवतीकथा । ॥ ३५५ ॥ ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy