________________
तत्रागात् । शीलवत्योक्तं-भोजनं क्रियमाणमस्ति । यावत् स्नानाय पानीयमुष्णं भवति तावत्त्वं तु पर्यङ्के उपविश । ततो यावदसौ तत्रोपविशति तावत् त्रुटिततन्तुपल्यङ्कादधो गर्तायामशोकः पतितः। रजबद्धशरावेण । भोजनोदके तस्मै ददती तिष्ठति स्म । स चाशोको नरकदुःखं तत्रोपभुङ्क्ते स्म । मासे एकस्मिन् गते राजाऽऽख्यत्अशोकस्य शुद्धिरपि न ज्ञायते। ततो रतिकेलिस्तथैव प्रतिज्ञां कृत्वा तत्र गतः। तयाऽशोकवत् कूपे क्षिप्तः। एवं कामाकुरोऽपि तत्र गतः । तया गर्तायां क्षिप्तः । तथा ललिताङ्गोऽपि । एवमशोकरतिकेलिकामाङ्कुरललिताङ्गा गर्तायां महादुःखमनुभवन्ति स्म । नारका इव नरके । ते च शीलवतीं प्रोचुर्दीनास्याः पीडिताः क्षुधा । अनात्मज्ञा नरा एवमस्मदृदुःखभाजनम् ॥ १॥ न दृष्टं तव माहात्म्यं, मूढैरस्माभिरेव हि । प्रसद्यास्मान्नितः कूपानिष्कासय सतीतमे! ॥ २ ॥ तयोचे-यूयमस्मदीयोक्तं कुरुत तदा कृषिष्यामः । तैरुक्तं यत्त्वयोपदिश्यते तदुकरं सुकरं वा करिष्यते । शिक्षयित्वेति शीलवत्या भर्तरि समागते तेषां चतुर्णां राजानुगानां स्वरूपं प्रोक्तम् ।। एकदा भूपं सपरिच्छदं भोजयामि। पश्चात्तान् प्रादुप्करिष्यामि । ततो राजा निमत्रितस्तेन भोजनार्थ। तत्र भोक्तुमागतः । इतः प्रच्छन्नं शीलवत्या रसवती निष्पादिता । ततस्ते प्रच्छन्नं दुर्बला बहिकृता अपवरकान्तरास
Jain Educat
onal
For Private
Personal Use Only
Dow.jainelibrary.org