SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्ती २ विभागे कथा। श्रीमती प्रियाऽभूत् । तस्य च पुत्री कलावती रूपलावण्यपराभूतामरी विद्यते । सा विधातुराद्या सृष्टिरिव सती कलावतीक्रमात् सर्ववर्यधर्मकलाकुशला बभूव । उहाहयोग्यां तां पुत्री भूपो मत्वा विवाहमेलनचिन्तासागरे ममज्ज । इतोऽन्येद्युस्तया पुत्र्या पितुरग्रे प्रोक्तमिति । यो मे प्रश्नचतुष्टयीं पूरयिष्यति स एव मया परिणेतव्यः । ततो गाढतहरचिन्ताब्धौ भूपो निमग्नोऽतीवाभवत् । तस्याः पुत्र्या विवाहार्थ राजा स्वयंवरमण्डपं कारयामास । मासद्वयान्ते चैत्रशुक्लपक्षे एकादशीदिने लग्नमस्ति । सा पुनः कलावती जिनधर्मकुशलाऽस्ति ! । एतन्मया तत्र व्यवसायार्थ गतेन दृष्टम् । तत्र च पुरे विजयसेनभूपस्य जयसेनावं सुतं सर्पदष्टमहमजीवयम्। सुखासनसमारूढं कृत्वा राजा हृष्टस्तं पुत्रं स्वगृहमानयामास । ततो राजा मां सहस्त्राभरणादिदानात् सच्चकार पुत्रमिव । अन्यदा मां सभासमक्षं नरराजः समादिशत् । खबन्धोर्जयसेनस्य यथोपकृतं त्वया तथा स्वसुः कलावत्या अस्यास्तुल्यवरकथनेन । मां वरचिन्तासागरादुत्तारय । तदा त्वां योग्यं मत्वा तस्या रूपं चित्रपटे लिखित्वाऽहमत्राऽऽगमम् । इदं हि रूपं ॥ ३४० ॥ वर्णिकामात्रं तस्या इहानीतं प्रभुविलोकनाय । यादृशमस्ति तस्या रूपं तादृशं देवोऽपि वक्तुं न क्षमः । यावती प्रभा भानोः प्रतिबिम्बेऽपि किं तादृशी दृश्यते ? । तद्विम्बं पश्यन् भूपः क्षणं मुकुलितेक्षणो।धूनयित्वा च शिरो| Jain Education L o nal For Private & Personel Use Only l inelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy