SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ दत्तं प्रति तदैवं मधुरमूचिवान् ( एषा मां समीहिष्यते कथम् ।?) ततस्तं राजानं खिन्नं दत्तः प्राह-वामिन् ! न क्रियते खेदः, चेतसा शकुनैः पुनः । नूनं कलावती सैव, पत्नी तव भविष्यति ॥ १॥ परमाराध्यतां देव!, द्रुतं वागीश्वरी सुरी । यथा प्रश्नचतुष्टय्या, निर्णयो ज्ञायते त्वया॥ २॥ ततः श्रीशङ्खभूपो ब्रह्मचर्यादिक्रियादिभिर्वाग्देवीं तथा तोषयामास यथा सा प्रत्यक्षीभूयावदत् । यतः त्वत्पाणिपातयोगेन, शालभञ्ज्यपि तत्क्षणात् ।। | कर्ता कलावतीप्रोक्तप्रश्नानां वर्णनिर्णयम् ॥ १॥ प्रणम्य देवीं वचनं जग्राह । ततो देवी तिरोदधे । ततः कृतकृत्यो भूपः समं दत्तेन सत्वरं प्रतस्थे देवशालपुरं प्रति।तं भूपमागच्छन्तं श्रुत्वा विजयसेनो नृपोऽपि विजयं| || पुत्रं शङ्खभूपतेः सम्मुखं प्रैषीत् । शङ्खस्य विजयो मिलितः । पुरमध्ये समहं प्रवेशितः स शङ्खो विजय सेनेन । अथ स्वयंवरे भूपाः समीयुः । उपविष्टा मञ्चोन्मञ्चेषु । शङ्खोऽप्युपविष्टः । ततः सुखासनारूढा सखी-IN परिवृता धृतातपत्रा कलावती स्वयंवरमण्डपे आययौ। अथ प्राहरिकप्रतिहारीमुखात् समस्याचतुष्कं पृथक् पृथक् | कलावती पपृच्छेति-को देवः १ को गुरुः २ किं वा, तत्त्वं ३ सत्त्वं ४ च कीदृशम् ? । स्पष्टीकर्ताऽर्हति स्पष्टं, कलावत्या वरस्रजम् ॥१॥ स्वस्खप्रज्ञानुसारेण, ततः सर्वेऽपि भूधवाः। उत्तरं प्रददुनैव, मेने सा परमाहती ॥ २ ॥ Jain Educatio C itional For Private Personel Use Only
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy