________________
| मार्गे धर्मोपदेशं शृण्वानौ हावपि भ्रातरौ जिनेन्द्रधर्म कुरुतः स्म । धारिणी चिरं संयमं प्रतिपाल्य सर्वकर्मक्षयान्मुक्तिं ।
ययौ । इति धारिणीकथा समाप्ता ॥ ३० ॥ | वैयावृत्त्यं वितन्वानः, साधूनां सततं जनः । पुष्पचूलेव लभते, सद्यः केवलिसम्पदम् ॥१॥ देवाः कुर्वति सान्निध्यं, श्रद्धाशीलप्रभावतः । कलावत्या यथा रश्मिः, प्रियायाः शङ्खभूपतेः!॥२॥ तथाहि-इहैव जम्बूद्वीपे मङ्गलादेशभूषणे शङ्खपुरे प्रजानुकूलः श्रीमान् शङ्खभूपो राज्यं करोति स्म ।तं भूपमेकदा सिंहासनस्थं गजश्रेष्ठिपुत्रो दत्तो मुदा ननाम । राजा प्राह-भो दत्त ! यत् किञ्चित् कौतुकं दृष्टं भ्रमता भुवि तत्कथ्यतां त्वया। ततो जगौ-देवाहं ! देवशालपुरे गतोऽभूवं वाणिज्यार्थम् । वाणिज्यसागरे यस्मादस्माकं श्रीः प्रव-IN र्धते । तत्र यन्मया कौतुकं दृष्टं तस्य स्वरूपं वक्तुं न शक्यते । वदन्निति दत्तो नृपाग्रे चित्रपाटिकां न्यधात् । तत्र लिखितां काञ्चिद्वरां नारी विलोक्य देवीति मन्यमानो व्यधूनयत् भूपपुरन्दरः शिरः। ततो दत्तः सस्मेरं प्राहदेव ! नेयं देवी, किन्तु मानुषी विद्यते । राजाऽवक्-कस्येयं पुत्री ?। दत्तोऽवक्-देवशालपुरे विजयसेनभूपस्य भी
Jain Educa
t
ion
For Private Personel Use Only
Shajainelibrary.org