SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- विभाग धारिणी कथा। ॥३३१॥ सा-भो धारिणि ! किमिदं त्वया कृतम् ?। धारिणी जगौ-मया दीक्षाग्रहणावसरे ध्यातं, यद्यहं गर्भस्वरूपमकथ- यिष्यं पुरा तदा त्वया मह्यं दीक्षा न दास्यते स्म ! । अतो मया गर्भस्वरूपं न प्रोक्तम् । ततः काले सुतोऽजनि । नाममुद्राभरणैरलङ्कृतं सुतं कृत्वा भूपगृहाङ्गणे मुक्तोऽङ्गजः। तदा क्षणान्तरेण तत्रागतेन जितसेनभृपेन गृहीतः स बालः । स्वगृहे नीत्वा पुत्रवत्तं स्थापयित्वा जन्ममहोत्सवपूर्व मणिप्रभ इति नाम दत्तं राज्ञा । क्रमाद्राज्ञि परलोकं गते मणिप्रभो राज्येऽभिषिक्तोऽमात्यैः कृतः । इतोऽवन्तिवर्द्धनो राष्ट्रवर्द्धनभ्रातृवधोद्भुतपश्चात्तापात् धारिणीपुत्रस्यावन्तिसेनस्य स्वपुत्राभावाद्राज्यं वितीर्य गुरुपार्श्वे दीक्षा ललौ । सोऽवन्तिसेनो बली मणिप्रभं भूपं दण्डं याचते स्म । दण्डादानेन सर्वबलेन कौशाम्बीमवन्तीसेनो वेष्टयामास । तदा मात्रा साध्व्या तया तत्राभ्येत्य खरूपमुक्त्वा सुतौ युद्धान्निवारितौ । मिलितौ परस्परं। प्रीतिभाजौ भूपौ जातौ । ततो द्वावपि भ्रातरावुज्जयिनी । प्रति चलितौ । मातापि महत्तरा तत्राभ्येति। धर्मोपदेशं ददौ । यतः-"धर्माज्जन्म कुले शरीरपटुता सौभाग्यमायुर्बलं, धर्मेणैव भवन्ति निर्मलयशोविद्यार्थसम्पत्तयः। कान्ताराच्च महाभयाञ्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवतु वः स्वर्गापवर्गप्रदः ॥१॥” ततो द्वावपि भूपौ मातृपाघे सम्यक्त्वमूलं द्वादशव्रतं ललतुः । ॥३३९॥ in Education For Private & Personal Use Only Malhelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy