Book Title: Bharateshwar Bahubali Vrutti Part_2
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 357
________________ तेऽन्यजनैः खलु !॥१॥ स्यन्दनं प्रगुणीकृत्य, शीलवत्या समन्वितः। स्वयं रत्नाकरः श्रेष्ठी, चचाल कृतमङ्गलः॥२॥ श्रेष्ठी मार्गे गच्छन् नद्यामुपेतायां शीलवतीं प्रति प्राह-पादत्राणे परित्यज्य, वत्से ! संचर पाथसि । किञ्चिद्विचार्य साऽग्रतः उपानद्युता नदीमुत्तीर्णा । श्रेष्ठी मेने तदा दुर्विनीतेयं शीलवती । पुरतो गच्छन् श्रेष्ठी मुद्गक्षेत्रं फलितं । दृष्ट्वा जगौ-अहो अस्य क्षेत्रे स्वामिनः सस्यश्रियः करगोचरा भविष्यन्ति । मुषाऽभाणीत्-यदि जग्धं नाभविष्यत्तदा तातोक्तं सर्व सत्यमभविष्यत् । श्रेष्ठी दध्यौ-इयमसम्बन्धं कथं भाषते ? । क्षेत्रं तु फलितं दृश्यमानमस्ति । क्षेत्रं भक्षितं तु मनाग न दृश्यते । समृद्ध्या धनदं द्रङ्ग, सरङ्गं जनसङ्कुलम् । पुरः पुरमथो वीक्ष्य, सश्लाघं मूर्ध धूनवान् ॥ १॥ स्नुषया तदोक्तं यदीदमुद्वसनं न भवति तदा श्लाघ्यते। ततः श्रेष्ठिना चिन्तितम्असौ सुषा मामेवं हसति । ततो हास्यफलं प्राप्स्यति । अग्रे सुभटमालोक्य, प्रहारभरजर्जरम् । श्रेष्ठी श्लाधितवानस्य, शौण्डीयं साधु साध्विति ॥ १॥ दृष्ट्वा तं सुभटं शीलवती प्राह-साध्वस्ति कुट्टितस्तावत्पामरश्चैव कातरः। । श्रेष्ठी दध्यौ-स्नुषेयं मयि प्रतिकूला विद्यते । यद्यदहं जल्पामि तत्तदसावन्यथा करोति । यतः-"सर्वस्यात्मा गुणवान् सर्वः परदोषदर्शने कुशलः । सर्वस्य चास्ति वाच्यं न चाऽऽत्मदोषान् वदति कश्चित् ॥ १ ॥ Jain Educatia For Private & Personel Use Only YAMjainelibrary.org

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398