Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 6
________________ सम्पादकीयं वक्तव्यम् । श्रीमद्धनुमद्भीममध्वान्तर्यामिरामकृष्णवेदव्यासात्मकसश्चिदानन्दविग्रहपूर्ण - तमाह्लादिनी शक्त्यभिन्नीकृत स्वरूपप्रेमावतारंभगबत्श्रीश्रीगौरकृष्णः शरणम् । निखिलश्रुतिमोलिरत्नमाला द्युतिनीराजितपादपङ्कजान्त ! श्रयि मुक्तकुलैरुपास्यमानं परितस्त्वां हरिनाम संश्रयामि । इह किल चेतनाचेतनात्मकत्वेन परिचीयमाने वैरिश्चप्रपञ्च चेतनस्यैव साक्षात्परम्परासाधारण्येनाचेतनप्रवर्तकताऽऽनुभविकीत्यत्र न कस्यापि वैमत्यं, किन्तु चेतनप्रवृत्तेः स्वार्थकारुण्यान्यतरव्याप्यत्वनियमेन प्रवृत्तिम्प्रति कारणत्वेन क्लृप्तज्ञानस्येष्टसाधनत्व विषयकतायामप्यविवादादावश्यके प्रवर्तकज्ञानीय विषयतापन्नेष्टस्य प्रवर्तमानप्रयोजनस्वरूपत्वे फलस्य चेच्छान्तरानधानेच्छाविषयत्वेच्छान्तराधीनेच्छाविषयत्वाभ्यां मुख्यगौणभेदतो द्वैविध्यात् सुखतत्साधनरूपस्य पुनरपि नित्यत्वानित्यत्वाभ्यां मुख्यस्य दृष्टत्वादृष्टत्वाभ्यां च गौणस्य प्रत्येकं - द्विरूपतया तत्रादृष्टगौणस्याधर्मत्वेन दृष्टगौणस्यार्थत्वेनानित्यमुख्यस्य कामत्वेन नित्यमुख्यस्य मोक्षत्वेन व्यवहाराद् धर्मार्थकाममोक्षाख्यपुमर्थरूपत्वेन चातुर्विध्यं पर्यवस्यति । न च भूना दर्शन विशेषरीतितो दुःखसामान्याभावस्यैव मोक्षरूपतया तस्य च नित्यत्वेऽपि सुखत्वाभावात् कथमिव नित्यमुख्यताऽनुपदमुक्ता सङ्गच्छतामिति वाच्यम् । यत्प्रतीतीच्छया वक्त्रोच्चार्यते शब्दः स एवार्थ इत्यनुभवमनुरुद्ध्य प्रवृत्ताद् 'यत्परः शब्द स शब्दार्थ' इतिन्यायाद् विविधप्रस्थानानि प्रचारयद्भिराचार्यैराविर्भावितेषु शास्त्रत्वेन सम्प्रतिपन्नेषु महावाक्यात्मकशास्त्रभेदापत्तिपरिजिहीर्षया प्रातिस्विकरूपेण तत्तत्प्रतिपाद्यविशेषस्यैकत्वेऽवश्यं वाच्येऽर्थादेव तत्रत्यं मुख्यत्वमपि तत्र नान्तरीयकमेवेति तदीयेतरेषु प्रतिपाद्येषु तन्निरूपिताङ्गत्वमर्थसमाजलब्धम् एवंचाङ्गमङ्गत्वादेव स्वाङ्गधनुरुन्धानं प्रधानान्तरेणाप्रधानान्तरेण च विसं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 160