Book Title: Bhagwad Gita Vivechanatmak Shabdakosh
Author(s): Prahlad C Divanji
Publisher: Munshiram Manoharlal Publishers Pvt Ltd

Previous | Next

Page 309
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Secondary Word-Units (१०) ब्रह्मसंस्पर्शम् ; (११) ब्रह्मामी। (१२) ब्रह्मोद्भवम्। (१३) महद्ब्रह्म । (१४) शब्दब्रह्म ।-(१-३) [विग्रहपद्धतिभ्यः ‘कर्मन्' (३४) 'चर्या', 'निर्वाण' (२) शब्दाः क्रमेण दृष्टव्याः] । (४-५) ब्रह्मभूतः (ब्रह्मणः स्थितिं प्राप्तः) ब्रह्मभूतः; तम् ब्रह्मभूतम्। (६) ब्रह्मणः भूयः (भवन) ब्रह्मभूयः, तस्मैः ब्रह्मभूयाय । (७) ब्रह्मणः (वेदस्य) वदनं (पाठः) तत् शीलं येषां ते ब्रह्मवादिनः (श्रोत्रियाः), तेषां ब्रह्मवादिनाम् । (८-९) ब्रह्म यः वेत्ति सः ब्रह्मवित् ; ब्रह्मविदः इति प्रथमाबहुवचनम्। (१०) ब्रह्मणा संस्पर्शः यस्य तत् ब्रह्मसंस्पर्शम्, तम् ब्रह्मसंस्पर्शम् । (११-१२) [विग्रहपद्धतिभ्यां 'अग्नि' (५), 'उद्भव' (३) शब्दो क्रमेण दृष्टव्यौ । (१३) महत् ( देशतः कालतश्च अविच्छिन्नत्वात् , सर्वकार्ये महत्त्वाद्वा, महत् ) च ब्रह्म (बृंहणात् , सर्वेषां वस्तूनां वृद्धिहेतुत्वात् , स्वविकाराणां भरणाद्वा, ब्रह्म) च महद्ब्रह्म । (१४) शब्दात्मकं, शब्दरूपं वा, ब्रह्म शब्दब्रह्म (वेदः)। 655. ब्रह्मभवन-आब्रह्मभवनात्-विग्रहपद्धत्यै 'आ(रभ्य)' (१) शब्दो दृष्टव्यः । 656. ब्रह्मभुवन-आब्रह्मभुवनात्-[विग्रहपद्धत्यै 'आ(रभ्य)' (२) शब्दो दृष्टव्यः)। 657. ब्रह्मयोगयुक्त-ब्रह्मयोगयुक्तात्मा-विग्रहपद्धत्यै 'आत्मन्' (३२) शब्दो दृष्टव्यः । 658. ब्रह्मसूब-ब्रह्मसूत्रपदैः-(विग्रहपद्धत्यै 'पद' शब्दो दृष्टव्यः)। 659. ब्राह्मण-ब्राह्मणक्षत्रियविशाम्-(विग्रहपद्धत्यै 'क्षत्रिय' शब्दो दृष्टव्यः)। 660. भक्त-(१) अन्यदेवताभक्ताः । (२) अभक्ताय। (३) मद्भक्तः । (४) मद्भक्ताः। (५) मद्भक्तेषु ।-(१) (विग्रहपद्धत्यै ‘अन्यदेवता' शब्दो दृष्टव्यः)। (२) न भक्तः, अभक्तः, तस्मै अभक्ताय । (३-५) मम भक्तः मद्भक्तः; मद्भक्ताः इति प्रथमायाः बहुवचनम् ; तेषु मद्भक्तेषु । 661. भाक्ति-(१) एकभाक्तः। (२) भक्तियोगेन । (३) भक्त्युपहृतम् । (४) भद्भक्तिम्। (१) [विग्रहपद्धत्यै 'एक' (१) शब्दो दृष्टव्यः] । ( २ ) भक्तिः एव योगः, भक्त्यात्मको योगः, भक्त्या योगः वा, भक्तियोगः, तेन भक्तियोगेन। (३) (विग्रहपद्धत्यै 'उपहृत' शब्दो दृष्टव्यः)। (४) मम भाक्तिः मद्भक्तिः, ताम् मद्भाक्तम् । 662. भगवत्-श्रीभगवान्-श्रीयुक्तः, श्रीमान् वा, भगवान् । 663. भय-(१) अभयम् । (२) कायकेशभयात् । (३) भयाभये। (४) भयावहः। (५) हषामर्षभयोद्वेगैः।-(१) न भयम् अभयम् (भयस्य अभावः)। (२-५) [विग्रहपद्धतिभ्यः 'कायक्लेश', 'अभय', 'आवह', 'अमर्ष' राब्दाः क्रमेण दृष्टव्याः]। 664. भरत-(१) भरतर्षभ। (२) भरतश्रेष्ठ । (३) भरतसत्तम ।-(१) [विग्रहपद्धत्यै 'ऋषभ' (२) शब्दो दृष्टव्यः । (२) भरतेषु भरतवंशीयेषु श्रेष्ठः भरतश्रेष्ठः; संबोधने विसर्गलोपः। (३) भरतेषु (भरतवंशीयेषु) ये सन्तः तेषु उत्तमः भरतसत्तमः; संबोधने विसर्गलोपः। 665. भर्तृ-भूतभर्तृ-भूतानां भर्तृ (पालयित)। 666. भव-भवाप्ययौ-(विग्रहपद्धत्यै 'अप्यय' शब्दो दृष्टव्यः) । 271 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411