Book Title: Bhagwad Gita Vivechanatmak Shabdakosh
Author(s): Prahlad C Divanji
Publisher: Munshiram Manoharlal Publishers Pvt Ltd

Previous | Next

Page 337
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Secondary Word-Units 31. मासक्तचेतस्-सर्वत्रासक्तचेतसाम्-सर्वत्र आसक्तचेतसः (आसक्तानि चेतांसि येषां ते) सर्वत्रासक्तचेतसः, तेषाम्। 32. इच्छमान इच्छ्-अनिच्छमानः-न इच्छमानः । 33. इच्छा-विगतेच्छाभयद्वेषः-विगतानि इच्छा भयं द्वेषश्च यस्मात् (यस्य हृदयात्) सः । 34. इवाल-महेष्वासः-महान् इष्वासः [ इषवः अस्यन्ते अनेन इति (धनुर्धारी योधः)] । 35. ईसु-जन्मकर्मफलेप्सवः-जन्मकर्मफलानां [जन्मकर्मणां (जन्मकारकाणि कर्माणि जन्म कर्माणि, तेषां) फलानि जन्मकर्मफलानि, तेषां] ईप्सा येषां ते। 36. ईश्वर-(१) परमेश्वरम्। (२) महायोगीश्वरः। (३) योगीश्वरः। (४) सर्वेश्वरः। (१) परमः ईश्वरः परमेश्वरः, तम् परमेश्वरम् । (२) महायोगीनां (महान्तः योगिनः महायोगिनः, तेषाम्) ईश्वरः महायोगीश्वरः; महान् योगीश्वरः (योगिनां ईश्वरः) महायोगीश्वरः इति वा। (३) योगिनां ईश्वरः योगीश्वरः; संबोधने विसर्गलोपः। (४) सर्वेषां ईश्वरः सर्वेश्वरः । 37. उत्तम-अनुत्तमम्-न उत्तमः अनुत्तमः, तम् । 38. उदय-परधर्मोदयात्-परधर्मस्य (परेषां धर्मः परधर्मः, तस्य) उदयः परधर्मोदयः, तस्मात् । 39. उपमान-कर्मोपमानम्-कर्मणामुपमानम् । 40. उपहत-उपहतान्तरात्मा-(विग्रहपद्धत्यै 'अन्तरात्मन्' शब्दो दृष्टव्यः)। ऋ 41. ऋषि-महर्षयः-महान्तो ऋषयः।। 12. ऐश्वर्य-भोगैश्वर्यगतीः (? भोगैश्वर्यगतिः or भोगैश्वर्यगती)-भोगश्च ऐश्वर्य च यस्या सा गतिः; भोगगतिः ऐश्वर्यगतिश्च वा, भोगैश्वर्यगती। 43. कर-रविकरा:--रवेः कराः (रश्मयः)। 44. कर्मन्-(१) कर्मोपमानम् । (२) गुणकर्मविभागतः । (३) पापकर्मभिः । (४) स्वकर्मणि । - (१) (विग्रहपद्धत्यै 'उपमान' शब्दो दृष्टव्यः)। (२) गुणविभागः कर्मविभागश्च (गुणपरत्वेन विभागः, कर्मपरत्वेन विभागश्च) गुणकर्मविभागौ, तयोः गुणकर्मविभागतः । (३) पापानि कर्माणि ये कुर्वन्ति ते पापकर्माणः, तैः पापकर्मभिः । (४) स्वस्य कर्म स्वकर्म, तस्मिन् स्वकर्मणि। 45. कर्मबन्ध-कर्मबन्धविनिर्मुक्ताः कर्मणा बन्धाः कर्मबन्धाः, तेभ्यो विनिर्मुक्ताः । 46. कलुष-कलषक्षुद्रः-कलुषःश्च असौ क्षुद्रश्च । 299 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411