________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Secondary Word-Units (१०) ब्रह्मसंस्पर्शम् ; (११) ब्रह्मामी। (१२) ब्रह्मोद्भवम्। (१३) महद्ब्रह्म । (१४) शब्दब्रह्म ।-(१-३) [विग्रहपद्धतिभ्यः ‘कर्मन्' (३४) 'चर्या', 'निर्वाण' (२) शब्दाः क्रमेण दृष्टव्याः] । (४-५) ब्रह्मभूतः (ब्रह्मणः स्थितिं प्राप्तः) ब्रह्मभूतः; तम् ब्रह्मभूतम्। (६) ब्रह्मणः भूयः (भवन) ब्रह्मभूयः, तस्मैः ब्रह्मभूयाय । (७) ब्रह्मणः (वेदस्य) वदनं (पाठः) तत् शीलं येषां ते ब्रह्मवादिनः (श्रोत्रियाः), तेषां ब्रह्मवादिनाम् । (८-९) ब्रह्म यः वेत्ति सः ब्रह्मवित् ; ब्रह्मविदः इति प्रथमाबहुवचनम्। (१०) ब्रह्मणा संस्पर्शः यस्य तत् ब्रह्मसंस्पर्शम्, तम् ब्रह्मसंस्पर्शम् । (११-१२) [विग्रहपद्धतिभ्यां 'अग्नि' (५), 'उद्भव' (३) शब्दो क्रमेण दृष्टव्यौ । (१३) महत् ( देशतः कालतश्च अविच्छिन्नत्वात् , सर्वकार्ये महत्त्वाद्वा, महत् ) च ब्रह्म (बृंहणात् , सर्वेषां वस्तूनां वृद्धिहेतुत्वात् , स्वविकाराणां भरणाद्वा, ब्रह्म) च महद्ब्रह्म ।
(१४) शब्दात्मकं, शब्दरूपं वा, ब्रह्म शब्दब्रह्म (वेदः)। 655. ब्रह्मभवन-आब्रह्मभवनात्-विग्रहपद्धत्यै 'आ(रभ्य)' (१) शब्दो दृष्टव्यः । 656. ब्रह्मभुवन-आब्रह्मभुवनात्-[विग्रहपद्धत्यै 'आ(रभ्य)' (२) शब्दो दृष्टव्यः)। 657. ब्रह्मयोगयुक्त-ब्रह्मयोगयुक्तात्मा-विग्रहपद्धत्यै 'आत्मन्' (३२) शब्दो दृष्टव्यः । 658. ब्रह्मसूब-ब्रह्मसूत्रपदैः-(विग्रहपद्धत्यै 'पद' शब्दो दृष्टव्यः)। 659. ब्राह्मण-ब्राह्मणक्षत्रियविशाम्-(विग्रहपद्धत्यै 'क्षत्रिय' शब्दो दृष्टव्यः)।
660. भक्त-(१) अन्यदेवताभक्ताः । (२) अभक्ताय। (३) मद्भक्तः । (४) मद्भक्ताः। (५)
मद्भक्तेषु ।-(१) (विग्रहपद्धत्यै ‘अन्यदेवता' शब्दो दृष्टव्यः)। (२) न भक्तः, अभक्तः, तस्मै अभक्ताय । (३-५) मम भक्तः मद्भक्तः; मद्भक्ताः इति प्रथमायाः
बहुवचनम् ; तेषु मद्भक्तेषु । 661. भाक्ति-(१) एकभाक्तः। (२) भक्तियोगेन । (३) भक्त्युपहृतम् । (४) भद्भक्तिम्।
(१) [विग्रहपद्धत्यै 'एक' (१) शब्दो दृष्टव्यः] । ( २ ) भक्तिः एव योगः, भक्त्यात्मको योगः, भक्त्या योगः वा, भक्तियोगः, तेन भक्तियोगेन। (३) (विग्रहपद्धत्यै 'उपहृत'
शब्दो दृष्टव्यः)। (४) मम भाक्तिः मद्भक्तिः, ताम् मद्भाक्तम् । 662. भगवत्-श्रीभगवान्-श्रीयुक्तः, श्रीमान् वा, भगवान् । 663. भय-(१) अभयम् । (२) कायकेशभयात् । (३) भयाभये। (४) भयावहः। (५)
हषामर्षभयोद्वेगैः।-(१) न भयम् अभयम् (भयस्य अभावः)। (२-५)
[विग्रहपद्धतिभ्यः 'कायक्लेश', 'अभय', 'आवह', 'अमर्ष' राब्दाः क्रमेण दृष्टव्याः]। 664. भरत-(१) भरतर्षभ। (२) भरतश्रेष्ठ । (३) भरतसत्तम ।-(१) [विग्रहपद्धत्यै
'ऋषभ' (२) शब्दो दृष्टव्यः । (२) भरतेषु भरतवंशीयेषु श्रेष्ठः भरतश्रेष्ठः; संबोधने विसर्गलोपः। (३) भरतेषु (भरतवंशीयेषु) ये सन्तः तेषु उत्तमः भरतसत्तमः;
संबोधने विसर्गलोपः। 665. भर्तृ-भूतभर्तृ-भूतानां भर्तृ (पालयित)। 666. भव-भवाप्ययौ-(विग्रहपद्धत्यै 'अप्यय' शब्दो दृष्टव्यः) ।
271
For Private and Personal Use Only