Book Title: Bandhhetubhangprakaranam
Author(s): Yashovijay Upadhyay, Shilchandrasuri
Publisher: Yashobhadra Shubhankar Gyanshala Godhra

View full book text
Previous | Next

Page 18
________________ श्रीशङ्केश्वरपार्श्वनाथाय नमो नमः ।। नमो नमः श्रीगुरुनेमिसूरये ॥ न्यायविशारद - न्यायाचार्य - महोपाध्याय श्रीयशोविजयजीगणिभिः प्रणीतं प्रकरणम् ऐ नमः ॥ ऐन्द्रवृन्दनतं नत्वा वीरं तत्त्वार्थदेशिनम् । स्वान्योपकृतये बन्ध हेतुभङ्गान् प्रचक्ष्महे ॥१॥ तत्र मिथ्यात्वाऽविरतिकषाययोगा बन्धहेतवः । तत्त्वार्थाऽश्रद्धानं मिथ्यात्वम् । तत् पञ्चधा, आभिग्रहिकमनाभिग्रहिकमाभिनिवेशिकं सांशयिकमनाभोगं चेति । तत्रेदमेव दर्शनं शोभनं नान्यदित्येवंरूपेण कुदर्शनाभिग्रहेण निवृत्तमाभिग्रहिकम्, यथा बोटिकादिकुदर्शनग्रहः । तद्विपरीतमनाभिग्रहिकं, यथा सर्वाणि दर्शनानि शोभनानीत्यभ्युपगमः । न चेदमंशे विपर्ययाविपर्ययरूपत्वात् सम्यमिथ्यात्वं स्यात् ; सींशविपर्ययाविपर्ययरूपत्वाभावाद् भेदान्तरं वा स्यादिति शङ्कनीयम् । विषर्ययमात्रस्यैव मिथ्यात्वलक्षणत्वात् , सींशतत्त्वरुचिरूपस्यैव च सम्यक्त्वलक्षणत्वात् । ____ अभिनिवेशो जानतोऽतिस्वमतिकल्पनया तत्त्वविप्लवस्तेन निर्वृत्तमाभिनिवेशिकं यथा गोष्ठामाहिलादीनाम् । भगवदुक्तं धर्मास्तिकायादि सत्यं नवेत्यादिसंशयेन निर्वृत्तं सांशयिकम् । आभोगेन सदसत्परिभावनलक्षणेन रहितमनाभोगं, तच्चैकेन्द्रियादीनाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56