Book Title: Bandhhetubhangprakaranam
Author(s): Yashovijay Upadhyay, Shilchandrasuri
Publisher: Yashobhadra Shubhankar Gyanshala Godhra
View full book text ________________
त एव दश कायषट्रकवध-भय-जुगुप्साप्रक्षेपात् सप्तदश । तत्र भङ्गाः पञ्चदशशतानि विशत्युत्तराणि । सर्वसङ्ख्यया सासादने बन्धहेतुभङ्गा लक्षत्रय त्र्यशीतिसहस्राणि चत्वारिंशच्च । भाविताः सासादने बन्धहेतुभङ्गाः ।
अथ मिश्रे ते भाव्यन्ते । तत्र सासादनो [दिता ] दशाऽनन्तानुवन्ध्युदयरहिता जघन्यतो नव पर्यवस्यन्ति । योगाश्चात्र दश; मिश्रे मरणाभावेन वैक्रियमिश्रौदारिकमिश्रकामणकाययोगाऽसम्भवात् । तत इयमङ्कस्थापना १०, ४, ३, २, ५, ६ । अमीषामङ्कानामभ्यासे जातानि द्विसप्ततिशतानि । एतावन्तः सम्यगमिथ्यादृष्टेर्नवबन्धहेतु भङ्गाः ॥ त एव नव कायद्वयवधप्रक्षेपे दश । द्विकसंयोगश्च पञ्चदशभेद इति तद्युक्तोक्ताङ्कगुणने जातान्यष्टादशसहस्राणि । अथवा भयप्रक्षेपाद् दश । तत्र भङ्गाः प्राग्वद् द्विसप्ततिशतानि । एवं जुगुप्साप्रक्षेपेऽपि । सर्वसङ्ख्यया देशबन्धहेतुभङ्गा द्वात्रिंशत्सहस्राणि चत्वारि च शतानि ॥ त एव नव कायत्रयवधप्रक्षेपादेकादश । त्रिकसंयोगे षण्णां विंशतिभङ्गा इति तद्युक्तोक्ताङ्कताडने भङ्गाश्चतुर्विशतिसहस्राणि । यद्वा कायद्वय वध-भयप्रक्षेपादेकादश । तत्र षण्णां द्विकसंयोगे पञ्चदशभेदनिष्पत्तेरष्टादशसहस्राणि भङ्गानाम् । एवं कायद्वयवध-जुगुप्साप्रक्षेपेऽपि । अथवा भय-जुगुप्साप्रक्षेपादेकादश । तत्र भङ्गा द्विसप्ततिशतानि । सर्वसङ्ख्ययैकादशबन्धहेतुभङ्गाः सप्तषष्टिसहस्राणि शतद्वयाधिकानि ।
त एव नव कायचतुष्टयवधप्रक्षेपे द्वादश । त्रिकसंयोगे च विंशतिर्भङ्गा इत्यत्र भङ्गानां चतुर्विंशतिसहस्राणि ।
[अत्रैवं पाठः सम्भाव्यतेः- त एव नव कायचतुष्टय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56