Book Title: Bandhhetubhangprakaranam
Author(s): Yashovijay Upadhyay, Shilchandrasuri
Publisher: Yashobhadra Shubhankar Gyanshala Godhra

View full book text
Previous | Next

Page 37
________________ कायभङ्गा दशेति प्राग्वद् भङ्गानां त्रयोदशसहस्री द्विशती च । एवं कायत्रयवध-जुगुप्साप्रक्षेपेऽपि । ] अथवा कायत्र(द्व)यवध -भय-जुगुप्सोपादाने एकादश । अत्रापि कायस्थाने दशैवेति भङ्गानां त्रयोदशसहस्री द्विशती च। सर्वसङ्ख्ययैकादशवन्धहेतुभङ्गाः षट्चत्वारिंशत्सहस्राणि शतद्वयाधिकानि । त एवाऽष्टौ कायपञ्चकवधग्रहणे द्वादश । तत्र पञ्चानां पञ्चसंयोगे भङ्ग एक इति प्राग्वदङ्काभ्यासे भङ्गानां त्रयोदशशतानि विंशत्युत्तराणि । यद्वा कायचतुष्टवध[भय] प्रक्षेपाद्वादश। तत्र पश्चानां चतुष्कसंयोगे भङ्गाः पञ्चेति प्राग्वदङ्काभ्यासे भङ्गानां षट्पष्टिशतानि । एवं कायचतुष्टवध-जुगुप्साक्षेपेऽपि । अथवा कायत्रयवध-जुगुप्सा-भयप्रक्षेपे द्वादश । तत्र पश्चानां त्रिकसंयोगे दशेति त्रयोदशसहस्री द्विशती च भङ्गानाम् । सर्वसङ्कलने द्वादशबन्धहेतुभङ्गाः सप्तविंशतिसहस्राणि सप्तशतानि विंशतिश्च । त एवाऽष्टौ कायपञ्चकवध-भयप्रक्षेपात् त्रयोदश । अत्र पञ्चानां पञ्चकसंयोगे भङ्ग एक इति भङ्गानां त्रयोदशशतानि विंशतिश्च । एवं कायपञ्चकवध-जुगुप्साप्रक्षेपेऽपि । यद्वा कायचतुष्टयवध-भय-जुगुप्सोपादाने त्रयोदश । तत्र कायस्थाने पञ्चेति भङ्गानां पटूपष्टिशतानि । सर्वसङ्ख्यया त्रयोदशबन्ध.. हेतुभगा द्विनवतिशतानि चत्वारिंशञ्च । त एवाऽष्टौ कायपञ्चकबध-भय-जुगुप्साप्रक्षेपाचतुर्दश । तत्र कायस्थाने एक इति भङ्गास्त्रयोदशशतानि विशतिथ । सर्वसङ्ख्यया देशविरतबन्धहेतुभङ्गा लक्षमेकं त्रिपष्टिसहस्राणि पटूशती चाऽशीत्यधिका । उक्ता देशविरते बन्धहेतुभङ्गाः ॥ . अथ ते प्रमत्ते प्रोच्यन्ते । तत्र द्वयोरन्यतरद् युग Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56