Book Title: Bandhhetubhangprakaranam
Author(s): Yashovijay Upadhyay, Shilchandrasuri
Publisher: Yashobhadra Shubhankar Gyanshala Godhra
View full book text ________________
૨૪
दिशाऽभिधीयते । तत्र संज्ञिपञ्चेन्द्रियः पर्याप्तो गुणस्थानग्रहणेनैव गृहीतः । अपर्याप्ता(प्त)संज्ञिनश्च जघन्यतश्चतुर्दश बन्धहेतव उत्कृष्टतोऽष्टादश । तत्र जघन्यतश्चतुर्दश सभ्यग्दृष्टेरमी-पटकायवथ एकः, संज्ञिपर्याप्तव्यतिरिक्तानां सर्वेषां सर्वदा पट्कायववस्याऽविशिष्टस्य प्रतिपादनात् । कथं तर्हि मिथ्यादृष्टयादिष्वेतद्भङ्गप्ररूपणा कृता, पडपि कायान् प्रति सर्वदा तेषामप्यविरतत्वात ? । नैप दोपः । संज्ञिनो हि समनस्काः ; ततस्तेषां भवत्येतादृशः कदाचित्तीव-तीव्रतरः परिणामविशेषः "अयमेको घात्य इभौ द्वौ घात्याविमे त्रयो घात्या" इत्यादिः । तदपेक्षयैककहिकादिसंयोगतो भङ्गनरूपणा घटते । इह तु मनोरहितत्वात् पटकायवध एव विशेषतो ग्राह्य इति । तथा पञ्चानां मध्येऽन्यतम इन्द्रियाऽसंयमो द्वयोरन्यतरद् युगलं त्रयाणामन्यतमो वेदः, अनन्तानुबन्धिवर्जानां कपायाणामन्यतमक्रोधादित्रिकम् । योगाश्चात्र सम्भाविनः पञ्चः संज्ञिनोऽपर्याप्तस्य सम्यग्दृष्टेमिथ्यादृष्टेवा शरीरपर्याप्तेरांक कार्मणौदारिकमिश्रवैक्रियमिश्ररूपाणां त्रयाणामेव योगानां, शरीरपर्याप्तेरूद्धर्व तु शेषपर्याप्त्यपेक्षयाऽपर्याप्तस्य देव-नरकापेक्षया वैक्रियस्य तिर्यगमनुष्यापेक्षया चौदारिकस्य सम्भवात् ; ततः पञ्चानां योगानामन्यतमो योगः । अङ्कस्थापनाः- ४, २, ५, [५] ३, १। अमीपां चाऽङ्कानां परस्पराभ्यासे जातानि चत्वारिंशदधिकानि चत्वारि शतानि । एतावन्तः संज्ञिनोऽपर्याप्तस्य सम्यग्दृष्टेश्चतुर्दशवन्धहेतुभङ्गाः । त एव चतुर्दश भयप्रक्षेपात् पञ्चदश । तत्रापि तावन्त एव भङ्गाः ४४० । एवं जुगुप्साप्रक्षेपेऽपि ! त एव चतुर्दश भय-जुगुप्साप्रक्षेपात् पोडा । तत्रापि तावन्त एव भङ्गाः । सर्व सङ्ख्ययाऽविरतसम्यग्दृष्टेः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56