Book Title: Bandhhetubhangprakaranam
Author(s): Yashovijay Upadhyay, Shilchandrasuri
Publisher: Yashobhadra Shubhankar Gyanshala Godhra

View full book text
Previous | Next

Page 47
________________ ३० मिथ्यादृष्टेरपर्याप्तबादरैकेन्द्रियस्य जघन्यपदे पोडश बन्धहेतवो मिथ्यात्वप्रक्षेपात् । नवरमत्र कार्मणौदारिकमिश्रौदारिकामन्यतमो योग इति वक्तव्यम् । ततः प्राग्वदङ्कगुणने भङ्गाश्चतुर्विशतिः । इयन्त एव भयस्य जुगुप्साया वा क्षेपे सप्तदशनुभयक्षेपेऽष्टादशस्वपि च । सर्वे समुदिताः षण्णवतिः ।। पर्याप्तवादरैकेन्द्रियस्य जघन्यतः पोडश बन्धहेतुभङ्गाः (हेतवः) तत्र भङ्गाश्चतुर्विंशतिः । इयन्त एव भयस्य जुगुप्साया वा क्षेपे सप्तदशसूभयक्षेपादष्टादशस्वपि च। सर्वे समुदिताः षण्णवतिः । सर्वसङ्ख्यया बाद रैकेन्द्रियाणां भङ्गानां द्विशती षट्पञ्चाशदधिका ॥ सूक्ष्मैकेन्द्रियस्याऽपर्याप्तस्य जघन्यपदे षोडश [बन्धहेतवः] । तत्र भङ्गाश्चतुर्विंशतिः । तावन्त एव भयस्य जुगुप्साया वा क्षेपे सप्तदशसूभयक्षेपादष्टादशस्वपि च । सर्वे समुदिताः षण्णवतिः । पर्याप्तसूक्ष्मैकेन्द्रियस्य जघन्यपदे षोडश । ते चाऽपर्याप्तवदेव । परमिह योग औदारिकरूप एक एव वाच्यस्ततो भङ्गा अष्टौ । तावन्त एव भयस्य जुगुप्साया वा क्षेपे सप्तदशसूभयक्षेपेऽष्टादशस्वपि च । सर्वे मिलिता द्वात्रिंशत् । सर्व सङ्ख्यया सूक्ष्मैकेन्द्रियाणां बन्धहेतुभङ्गा अष्टाविंशौं शतम् ।। तदेवमुक्ता गुणस्थानेषु [जीवस्थानेषु च बन्धहेतुभङ्गाः॥ हेतुत्वमिह प्रकृति-प्रदेशसामान्य एव योगानाम् । स्थिति-र[स]सामान्ये तु, प्रोक्तं कुशलैः कषायाना(णा)म् ॥१॥ व्यतिरेकान्वयदृष्टेः प्रकृतिविशेषे तु हेतुभेद इति । प्रकृतीनां षोडशकं मिथ्यात्वनिमित्तकं प्रोक्तम् ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56