Book Title: Bandhhetubhangprakaranam
Author(s): Yashovijay Upadhyay, Shilchandrasuri
Publisher: Yashobhadra Shubhankar Gyanshala Godhra
View full book text ________________
૩૨.
क्षायोपशमिकदर्शन-विच्छेदो ह्याधसमयभावीष्टः । जिननाम्नो बन्धस्य त्वपूर्वकरणस्य षष्ठांशे ॥१२॥ तन्न किमपि सम्यक्त्वं जिननाम्नो बन्धकारणं घटते । कारणमाहारकयुग-बन्धस्य न संयमोऽप्येवम् ॥१३॥ सामान्येन तथात्वे तस्य भवेत् स प्रमत्तदमिनोऽपि । ग्राह्येऽप्रमत्तभावे त्वपूर्वषड्भागपरतोऽपि ॥१४॥ अत्र वदन्त्यनयोरपि कषायस(भे)दा हि कारणं मौलम् । सम्यक्त्वसंयमौ पुन-रेपां सहकारितां धत्तः ॥१५॥ ते चारभ्य चतुर्थाद् गुणाश्रयात् सप्तमाच्च वर्तते(न्ते)। नियता भेदा अर्वागपूर्वकरणस्य पष्ठांशात् ॥१६॥ सम्यक्त्वानुगतास्ते बन्धाय स्युः प्रशस्ततां नीताः । सकलजगदुदिधीर्षा-दिसङ्गतास्तीर्थकरनाम्ना(?म्नः) ॥१७॥ तथा हि-लोचनलाभसमानं सम्यक्त्वं प्राप्य चिन्तयति धीमान् । मोहांगकरे(मोहान्धकार) गहने संसारे के न दुःखार्ताः ? ॥१८॥ सत्त्वा भ्रमन्ति सत्य-प्यस्मिन् सद्धर्मतेजसि हताशाः । कृच्छ्रादस्मादेनांस्तदनेनोत्तारयामीति ॥१९॥ करुणादिगणोपेतः परार्थकरणप्रवर्द्धमानमनाः । स तथैव चेष्टमानः परार्थकृत्तीर्थकृद् भवति ॥२०॥ यस्तु स्वजनादिगतं ध्यायत्येव तथाऽनुतिष्ठति च । सावधिकपरार्थरतः स तु धीमान् गणधरो भवति ॥२१॥ स्वयमेव निर्यियासति भवनैर्गुण्योपलम्भतो यस्तु । स तु मुण्डकेवली स्या-दात्मैकार्थप्रवृत्तिगुणः ॥२२॥ प्रणिधिप्रवृत्तिविघ्नजय-सिद्धिविनियोगचरणशुद्धिभवाः । वन्ध (न्धं?) कपायभेदाः कुर्वन्त्याहारकयुगस्य ॥२३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 47 48 49 50 51 52 53 54 55 56