Book Title: Bandhhetubhangprakaranam
Author(s): Yashovijay Upadhyay, Shilchandrasuri
Publisher: Yashobhadra Shubhankar Gyanshala Godhra
View full book text ________________
जातिचतुष्टय-नरकत्रिक-मिथ्यात्वानि हुण्डसेवाते । स्थावरचतुष्कमातप-तृतीयवेदाश्च षोडशकम् ॥३॥ मनुज-स्त्यानद्वित्रिक ३[मपि तिर्यत्रिक]मनाद्यचरमानि । संस्थानक४संहनना४न्युद्योतादासुखगती (?शुभखगति) च ॥४॥ नींचैर्गोत्रौदारिक-युगलकपायाष्टकाङ्गनावेदाः । वज्रर्षभमिति पञ्च-त्रिशदिहाऽसंयमनिमित्ताः ॥५॥ बध्यन्ते[च]कपायै-रवशिष्टाः प्रकृतयोऽष्टषष्टिरिह । योगैस्तु सातवेद्यं तथैव नियमोपलम्भेन ॥६॥ उक्तं च पञ्चसङ्ग्रहे - “सोलस मिच्छणिमित्ता बज्झइ पणतीस अविरईए उ । सेसा उ कसाएहिं जोगेहि य सायवेयणियं ॥" चतुरादिप्रत्ययती(ता), सीतां(साता)दौ यातु भाषिताऽन्यत्र । सा तु तृणारणिमणिवद् विकल्पमाश्रित्य बोद्धव्या ॥७॥ तथा चोक्तं षडशीतिके - " चतुमिच्छमिच्छअविरइ-पच्चइया सायसोलपणतीसा । जोगविण तिपचईया-हारगजिणव[ज्ज] सेसाउ ॥" तीर्थकराऽऽहारकयो-बन्धे सम्यक्त्वसंयमौ हेतू । इति वस्तुस्थितिरत्रा-ऽनुपपत्तिं भावयन्ति परे ॥८॥ सम्यक्त्वमौपशमिकं तीर्थंकरनामबन्धहेतुश्चेत् । तद्धन्धस्तद्भावात् स्यात्तर्युपशान्तमोहेऽपि ॥९॥ क्षायिकसम्यक्त्वं चे-जिननाम्नो बन्धकं तदा बन्धः। सिद्धानामपि तस्य प्रसज्यते तद्वतां सततम् ॥१०॥ क्षायोपशमिकमीश-मिदमिति चेत्तीपूर्वकरणस्य । प्रथमसमयेऽपि हि भवे-तद्वन्धस्य व्यवच्छेदः ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 46 47 48 49 50 51 52 53 54 55 56