Book Title: Bandhhetubhangprakaranam
Author(s): Yashovijay Upadhyay, Shilchandrasuri
Publisher: Yashobhadra Shubhankar Gyanshala Godhra
View full book text ________________
33
ननु च विशेषाश्रयणे संयमसम्यक्त्वयोः क इव मन्तुः । यत सकषायेविष्टो नेटः सम्यक्त्वसंयमयोः १ ॥ २४ ॥ सत्यं निश्चयनयतो हेतुर्मोक्षस्य नैव बन्धस्य । तेन जिनाssहारकयो - बन्धकतेष्टा कषायेषु ||२५|| व्यवहारनये खिष्टं संयमसम्यक्त्वयोरपि तथात्वम् । येन घृतं दहतीतिवदुपचारस्तत्र सम्भवति ॥ २६॥ शुद्धनयानुगृहीत व्यवहारनयस्य चेदमाकूतम् । स्त्रैरी त्वयमाश्रयते ऽतिशयं सम्यक्त्वसंयमयोः ॥२७॥ नयभेदाद् वाग्भेदो न च दुष्यति कोऽपि शास्त्रकाराणाम् । पापत्य स्थविर - प्रतिवचनानां विभेद् इव ||२८|| योगेष्वव विशेषं वाञ्छन्त्यन्ये तु तारतम्येन । फलभेदात्तद्भेदा-न [ हि ? ] वचनोपग्रहस्तत्र ॥ २९ ॥ उक्ता बन्धहेतवः ||
*
*
बद्धस्य कर्मणः स्यादुदय ( : ) तस्मात् परीषहा दमिनः । उपतिष्ठन्त इतीमे कीर्त्यन्ते ये यथारूपाः ॥ १ ॥ क्षुदुदन्योष्णं शीतं शय्यारोगौ वधस्तृणस्पर्शः । चर्या मलदंशौ चे-त्येकादश वेदनीयभवाः ||२॥ निरवद्याहारस्या - sलाभे क्षुद्वेदनाऽतिरेकेऽपि | स्वाध्यायध्यानभृत- स्त्यजतश्चाऽकालभिक्षेच्छाम् ||३|| अन्यूनयतो योगा- नगृहणतोऽनेषणीयपिण्डं च । यददेन्यात् क्षुत्सहनं क्षुधापरीषहजयः स मतः || ४ || एवमुदन्याविजयी - sप्युष्णपरीषहजयस्तु तस्य मतः । यो निश्छायाटव्यां गच्छन् ग्रीष्मे महाभीष्मे ||५|| शुष्कगलतालुरसनो -ऽप्यतिदाहहतस्तपोविशेषेण । प्राणिदयाधृतबुद्धि-र्जलावगाहादि नानुते ||६||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 48 49 50 51 52 53 54 55 56