Book Title: Bandhhetubhangprakaranam
Author(s): Yashovijay Upadhyay, Shilchandrasuri
Publisher: Yashobhadra Shubhankar Gyanshala Godhra

View full book text
Previous | Next

Page 43
________________ वन्तो मिथ्यादृष्टेः संध्यपर्याप्तस्य षोडशबन्धहेतुभङ्गाः । त एव षोडश भयप्रक्षेपात् सप्तदश । तत्रापि तावन्त एव भङ्गाः । एवं जुगुप्साक्षेपेऽपि । उभयप्रक्षेपेऽष्टादश । तत्रापि त एव भङ्गाः । सर्वसङ्ख्यया चतुर्विंशतिशतानि ।। संध्यपर्याप्ते एतदेव गुणस्थानत्रयं भवति, नाधिकम् । तद्भाविनः सर्वे भङ्गाश्चत्वारिंशदधिकानि चतुःपञ्चाशच्छतानि । __ असंज्ञिपञ्चेन्द्रियस्याऽपर्याप्तस्य मिथ्यात्व-सासादनलक्षणं गुणस्थानद्वयं सम्भवति । बादरैकेन्द्रिय-विकलेन्द्रियाऽसंक्षिपञ्चेन्द्रियाणामपर्याप्तानामेतद्गुणस्थानद्वयस्यैव प्रतिपादनात् । तत्राऽपर्याप्ताऽसंज्ञिपञ्चेन्द्रियस्य सासादनत्वे जघन्यपदे पञ्चदश बन्धहेतवः। षट्कायवधोऽन्यतरेन्द्रियाऽसंयमोऽन्यतरयुगलमन्यतमवेदोऽनन्तानुवन्ध्याद्यन्यतमक्रोधादिचतुष्टयं कार्मणौदारिकमिश्रयोरन्यतरो योगश्चेति । अत्र प्राग्वन्मिथोऽङ्कानां गुणने भङ्गानां द्विशती चत्वारिंशदधिका । भयप्रक्षेपाज्जुगुप्साप्रक्षेपाहा षोडशसूभयप्रक्षेपाच्च सप्तदशस्वपि प्रत्येकमियन्त एव भङ्गाः । सर्वसङ्ख्यया सासादने नवशती पष्टयधिका । मिथ्यादृष्टित्वे च मिथ्यात्वप्रक्षेपाज्जघन्यपदे पोडश, योगाश्च तत्र त्रय इति प्राग्वदानां गुणने भङ्गानां त्रिशती षष्टयधिका । सैव भयक्षेपाज्जुगुप्साक्षेपाद्वा सप्तदशसु, उभयप्रक्षेपादष्टादशस्वपि चेति सर्वसङ्ख्यया मिथ्यादृष्टित्वे भङ्गानां चतुर्दशशती चत्वारिंशदधिका । सर्वसङ्कलनया गुणस्थानद्वयेऽपर्याप्ताऽसंज्ञिपञ्चेन्द्रियस्य बन्धहेतुभङ्गाश्चतुर्विशतिशतानि ।। पर्याप्तस्याऽसंज्ञिपञ्चेन्द्रियस्य मिथ्यात्वलक्षणमेकमेव गुणस्थानम् । पर्याप्ताऽपर्याप्तसूक्ष्म-पर्याप्तवादरैकेन्द्रिय-विकलेन्द्रियाऽसंज्ञिपश्चेन्द्रियेष्वेकस्यैव गुणस्थानकस्य प्रतिपादनात् । ततो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56