Book Title: Bandhhetubhangprakaranam
Author(s): Yashovijay Upadhyay, Shilchandrasuri
Publisher: Yashobhadra Shubhankar Gyanshala Godhra

View full book text
Previous | Next

Page 42
________________ ૨૫ संज्ञा(झ्य)पर्याप्तस्य बन्धहेतुभङ्गाः सप्तदशशतानि पष्टयधिकानि । सासादनस्य संज्ञा(झ्य)पर्याप्तस्य योगाः कार्मणौदारिकमिश्रवैक्रियमिश्ररूपास्त्रय एव । न च सासादनभावेऽपि शरीरपर्याप्त्या पर्याप्तस्याऽन्यपर्याप्तिभिरपर्याप्तस्यौदारिक वैक्रिययोगावपि किं न स्त इति शङ्कनीयम् । शरीरपर्याप्तिसमाप्तिवेलायां सासादनत्वाऽयोगात् ; तस्या अन्तर्मुहूर्तेन परिसमाप्तेः । संज्ञिव्यतिरिक्तानां सासादनत्वस्य चाऽपर्याप्तावस्थायां पडावलिकामात्रकालमेव सम्भविनस्तदागेवाऽपगमाज्जधन्यपदेऽप्यस्य बन्धहेतवः पञ्चदश, अनन्तानुवन्धिप्रक्षेपात् । तत्र वेदत्रिकेण योगत्रिकं गुण्यते, जाता नव । ततः सासादेने रूपमेकमपनेयमुक्तमिति स्थिता अष्टौ । तैः पञ्चेन्द्रियाऽसंयमा गुण्यन्ते, जाताश्चत्वारिंशत् । तैयुगलद्विकं गुण्यते, जाता अशीतिः । तैः कषायचतुष्टयगुणने जातानि त्रीणि शतानि विंशत्यधिकानि । एतावन्तः संज्यपर्याप्तस्य सासादनस्य पञ्चदशबन्धहेतुभङ्गाः । त एव पञ्चदश भयप्रक्षेपात् षोडश, भङ्गास्तावन्त एव । एवं जुगुप्साप्रक्षेपेऽपि । उभयक्षेपे सप्तदश, भङ्गास्तावन्त एव । सर्वे संज्यपर्याप्तसासादनस्य बन्धहेतुभङ्गा द्वादशशतान्यशीत्यधिकानि । मिथ्यादृष्टेः संझ्यपर्याप्तस्य जयन्यपदे बन्धहेतवः षोडश; मिथ्यात्वप्रक्षेपात् । अत्र च मिथ्यात्वमेकमेव, त्रयोदशानामपि जीवानामेकस्यैवाऽनाभोगिकमिथ्यात्वस्य भणनात् । योगाश्च पञ्चेति वेदत्रयेण योगत्रय(? पञ्चक)गुणने जाताः पञ्चदश । तैरिन्द्रियाऽसंयमपञ्चकगुणने पञ्चसप्ततिः । तया युगलद्विकताडने सार्द्ध शतम् । तेन कपायचतुष्टयगुणने पट् शतानि । एता Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56