Book Title: Bandhhetubhangprakaranam
Author(s): Yashovijay Upadhyay, Shilchandrasuri
Publisher: Yashobhadra Shubhankar Gyanshala Godhra
View full book text ________________
२3
सूक्ष्मसम्पराये एक एव किट्टीकृतसंज्वलनलोभाख्यः कफये, योगाश्च सम्भविनो नवेति नवैव भङ्गाः ।।
उपशान्तमोह-क्षीणमोहयोश्च नवैव योगा बन्धहेतवः । एकदा चैक एव योग इति नवैव भङ्गाः ॥
सयोगिनो योगाः सप्त सम्भव [न्ति] इति सप्तैव भङ्गाः ॥
सर्वगुणस्थानेषु भङ्गसङ्ख्या षट्चत्वारिंशल्लक्ष(क्षाः? ) द्वयशीतिसहस्राणि सप्त सहस्राणि (शतानि) च सप्तत्यधिकानि ४६८२७७० । तदुक्तं पञ्चसङ्ग्रहे
“सव्वगुणठाणगेमु विसेसहेऊण इत्तिया संखा ।
छायाललक्ख-बासी-सहस्स सयसत्त सत्तरि य॥"
यदि चैकद्वयादयो जीवघातभेदा न गृह्यन्ते, किन्त्वेकद्विकादिधातभेदा एव, तदैकादिषडन्तवधेषु षट्-पञ्चदश-पडेकसंयोगजभेदसम्भवान्मिथ्यात्वभेदानां पञ्चानां कायबंध(वय)भेदत्रिषष्टया गुणने त्रिशती पञ्चदेशोत्तरा । तस्याः पञ्चभिरि'न्द्रियाऽसंयमैर्गुणने पञ्चदशशती पञ्चसप्तत्युत्तरा । तस्या युग लद्वयेन गुणने त्रिसहस्री शतमेकं च पञ्चाशदुत्तरम् । तद्राशेस्त्रिभिर्वेदैर्गुणने नवसहस्री चतुःशती पञ्चाशञ्च । तद्राशेश्चतुर्भिः कपायैर्गुणने सप्तत्रिंशत्सहस्राण्यष्ट शतानि च । तेषां दशभियोगैर्गुणने लक्षत्रयमष्टसप्ततिसहस्राणि च । इत्येतावन्तो मिथ्यादृष्टौ नववन्धहेतुभङ्गा भवन्ति । अग्रे च भय-जुगुप्साऽनन्तानुबन्धिसंचारणे द्वादशान्ता एव भेदा विश्रामन्ति । एवमग्रेऽपि यथायथमभ्यूह्यम् । तदेवमुक्ता गुणस्थानेषु युगपद्भाविबन्धहेतुभङ्गसङ्ख्या ॥
अथ जीवस्थानेषु युगपद्भाविबन्धहेतुभङ्गसङ्ख्या पूर्वोक्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56