SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ २3 सूक्ष्मसम्पराये एक एव किट्टीकृतसंज्वलनलोभाख्यः कफये, योगाश्च सम्भविनो नवेति नवैव भङ्गाः ।। उपशान्तमोह-क्षीणमोहयोश्च नवैव योगा बन्धहेतवः । एकदा चैक एव योग इति नवैव भङ्गाः ॥ सयोगिनो योगाः सप्त सम्भव [न्ति] इति सप्तैव भङ्गाः ॥ सर्वगुणस्थानेषु भङ्गसङ्ख्या षट्चत्वारिंशल्लक्ष(क्षाः? ) द्वयशीतिसहस्राणि सप्त सहस्राणि (शतानि) च सप्तत्यधिकानि ४६८२७७० । तदुक्तं पञ्चसङ्ग्रहे “सव्वगुणठाणगेमु विसेसहेऊण इत्तिया संखा । छायाललक्ख-बासी-सहस्स सयसत्त सत्तरि य॥" यदि चैकद्वयादयो जीवघातभेदा न गृह्यन्ते, किन्त्वेकद्विकादिधातभेदा एव, तदैकादिषडन्तवधेषु षट्-पञ्चदश-पडेकसंयोगजभेदसम्भवान्मिथ्यात्वभेदानां पञ्चानां कायबंध(वय)भेदत्रिषष्टया गुणने त्रिशती पञ्चदेशोत्तरा । तस्याः पञ्चभिरि'न्द्रियाऽसंयमैर्गुणने पञ्चदशशती पञ्चसप्तत्युत्तरा । तस्या युग लद्वयेन गुणने त्रिसहस्री शतमेकं च पञ्चाशदुत्तरम् । तद्राशेस्त्रिभिर्वेदैर्गुणने नवसहस्री चतुःशती पञ्चाशञ्च । तद्राशेश्चतुर्भिः कपायैर्गुणने सप्तत्रिंशत्सहस्राण्यष्ट शतानि च । तेषां दशभियोगैर्गुणने लक्षत्रयमष्टसप्ततिसहस्राणि च । इत्येतावन्तो मिथ्यादृष्टौ नववन्धहेतुभङ्गा भवन्ति । अग्रे च भय-जुगुप्साऽनन्तानुबन्धिसंचारणे द्वादशान्ता एव भेदा विश्रामन्ति । एवमग्रेऽपि यथायथमभ्यूह्यम् । तदेवमुक्ता गुणस्थानेषु युगपद्भाविबन्धहेतुभङ्गसङ्ख्या ॥ अथ जीवस्थानेषु युगपद्भाविबन्धहेतुभङ्गसङ्ख्या पूर्वोक्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001469
Book TitleBandhhetubhangprakaranam
Original Sutra AuthorYashovijay Upadhyay
AuthorShilchandrasuri
PublisherYashobhadra Shubhankar Gyanshala Godhra
Publication Year1987
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy