Book Title: Bandhhetubhangprakaranam
Author(s): Yashovijay Upadhyay, Shilchandrasuri
Publisher: Yashobhadra Shubhankar Gyanshala Godhra

View full book text
Previous | Next

Page 38
________________ त्रयाणामन्यतमो वेदश्चतुर्णामेकतमः संज्वलनः, कार्मणौदारिकमिश्ररहितानां त्रयोदशानामन्यतमो योग इति जघन्यतः पञ्च वन्धहेतवः। मिथ्यात्वाऽविरतिभेदश्च कोऽप्यत्र नाऽस्ति । ततस्त्रिभि दैत्रयोदश योगान् गुणवेजाता एकोनचत्वारिंशत् । ततो रूपट्टयमपनीयते, स्त्रीवेदोदये आहारकाहारकमिश्राऽसम्भवात् ; स्त्रीणां दृष्टिवादाध्ययनप्रतिषेधात् । ततः स्थिताः शेषाः सप्तत्रिंशत् , तैयुगलहिकं गुण्यते, जाताश्चतुःसपतिः । तैश्चत्वारः कपाया गुण्यन्ते, जातं पण्णवत्यधिकं शतद्वयम् । ‘एतारन्तः प्रमत्ते पञ्चवन्धहेतुभङ्गाः । त एव भयप्रक्षेपात् पड्। भङ्गाः तत्र तावन्त एव २९६ । एवं जुगुप्सोपादानेऽपि । त एव पञ्च भय-जुगुप्साप्रक्षेपात सप्त । भङ्गास्तत्र तारन्त एव २९६ । सर्वे प्रमत्तसंयते बन्धहेतुभङ्गा एकादश शतानि चतुरशीतिश्च । भाविताः प्रमत्ते संयते वन्धहेतुभङ्गाः ॥ अथाऽप्रमत्ते भाव्यन्ते । तत्र जघन्यतः पञ्च । त्रयाणामन्यतमो वेदः, काभगौदारिकमिश्र-वैक्रियमिश्राहारकमिश्ररहितानामेकादशानामन्यतमो योगः, द्वयोरन्यतरद् युगलं, चतुर्णामन्यतमः संज्वलनश्चेति । अत्र त्रिभिर्वे दैोगा एकादश गुण्यन्ते, जातात्रयस्त्रिंशत् । तत एकं रूपमपनीयते, स्त्रीवेदोदये आहारकयोगाऽसम्भवात् ; स्थिता द्वात्रिंशत् । ते युगलद्वयेन गुण्यन्ते; जाताश्चतुःषष्टिः । ते कषायचतुष्टयेन गुण्यन्ते, जातं षट्पञ्चाशं शनद्वयम् । इयन्तोऽप्रमत्ते पञ्च बन्धहेतुभङ्गाः । त एव पञ्च भयेन सह पड्। भङ्गास्तावन्त एव २५६ । अथवा जुगुप्सया सह पडू, भङ्गास्तावन्त एव २५६ । सर्वे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56