Book Title: Bandhhetubhangprakaranam
Author(s): Yashovijay Upadhyay, Shilchandrasuri
Publisher: Yashobhadra Shubhankar Gyanshala Godhra

View full book text
Previous | Next

Page 36
________________ देशविरते कायवधाः पञ्च, त्रसकायवधप्रत्याख्यानात् । योगाचैकादश, कार्मणौदारिकमिश्राहारकद्विकानामसम्भवात् , इत्यप्रत्यारव्यानवर्जेष्वष्टसु बन्धहेतुषु कायवधपञ्चकं पञ्चभिरिन्द्रिथाऽसंयमैगुण्यते, जाता पञ्चविंशतिः। सा युगलद्विकेन गुण्यते, जाता पश्चाशत् । तया वेदत्रिकं गुण्यते, लब्धं सार्द्धशतम् । तत् कपायचतुष्टयेन गुण्यते, जातानि षट् शतानि । तान्येकादशभिोगेर्गुण्यन्ते, जातानि षट्पष्टिशतानि । एतावन्तोऽष्टबन्धहेतुभङ्गाः । त एवाऽष्टौ कायद्वयवधप्रक्षेपान्नव । पञ्चानां च कायानां द्विकसंयोगे भङ्गा दशेति कायस्थाने दशस्थापनया प्राग्वदङ्कगुणने भङ्गानां त्रयोदशसहस्त्री द्विशती च । अथवा भयप्रक्षेपानव । तत्र कायस्थाने पञ्चैवेति भङ्गानां षट्पष्टिशतानि । एवं जुगुप्साप्रक्षेपेऽपि । सर्वे नवबन्धहेतुभङ्गाः चतुःशताधिकषड्विंशतिसहस्राणि । त एवाऽष्टौ कायत्रयवधप्रक्षेपाद् दश । पञ्चानां त्रि(क) संयोगे च दशभङ्गीति भङ्गानामिह त्रयोदशसहस्री द्विशती च । अथवा काय[द्वय]वध-भयप्रक्षेपाद् दश । अत्र पश्चानां द्विसंयोगे भङ्गा दशेति भङ्गानां त्रयोदशसहस्री द्विशती च । एवं कायद्वयवध-जुगुप्साप्रक्षेपेऽपि । एवं भय-जुगुप्साप्रक्षेपाद् दश । तत्र कायस्थाने पञ्चवेति भङ्गानां षट्रषष्टिशतानि । सर्वसङ्ख्यया दशबन्धहेतुभङ्गाः षट्चत्वारिंशत्सहस्राणि शतद्वयाधि-- कानि । त एवाऽष्टौ कायचतुष्टयवधप्रक्षेपादेकादश । अत्र पञ्चानां चतुष्कसंयोगे पञ्च भङ्गाः प्राप्यन्त इति प्राग्वद् गुणने भङ्गाः षट्षष्टिशतानि । [अथवा कायत्रयवध-भयप्रक्षेपादेकादश । अत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56