Book Title: Bandhhetubhangprakaranam
Author(s): Yashovijay Upadhyay, Shilchandrasuri
Publisher: Yashobhadra Shubhankar Gyanshala Godhra
View full book text ________________
૨૨
S
पबन्धहेतुभङ्गाः शतानि पञ्च द्वादशोत्तराणि । त एव पञ्च जुगुप्सा - भयप्रक्षेपे सप्त । भङ्गास्तावन्त एव २५६ | सर्वे'sप्रमते बन्धहेतुभङ्गाचतुर्विंशत्यधिकं सहस्रम् | भाविता अप्रमत्ते बन्धहेतुभङ्गाः ||
अथ चाsपूर्वकरणे ते भाव्यन्ते । तत्र च वैक्रियाssहारकयोरप्यसम्भवाद् योग नेव ( योगा नव ) । तत्र त्रयाणामन्यतमो वेदो नवानामन्यतमो योगो द्वयोरन्यतरद् युगलं चतुर्णामन्यतरः संज्वलन इति जघन्यतोऽमी पञ्च बन्धहेतवः । as dearer योगन केन गुणने सप्तविंशतिर्भङ्गाः । तैर्युगलद्वयगुणने चतुःपञ्चाशत् । तैः कपायचतुष्टयगुणने द्वे शते षोडशोत्तरे | इयन्तोऽपूर्वकरणे पञ्चवन्धहेतुभङ्गाः ।
त एव पञ्च भयप्रक्षेपात पट । भङ्गास्तत्रापि तावन्त एव २१६ | एवं जुगुप्साप्रक्षेपेऽपि २१६ । सर्वे पवन्धहेतुभङ्गाचत्वारि शतानि द्वात्रिंशच्च । त एव [ पञ्च] भयजुगुप्साक्षेपे सप्त । भङ्गाः प्रागुक्तमानाः २१६ । सवसङ्कलनयाsपूर्वकरणेऽष्टौ शतानि चतुःषष्टिभङ्गाः । निगदिता अपूर्व - करणे वन्धहेतुभङ्गाः ॥
अथाsनिवृत्तिवादरे ते निगद्यन्ते । तत्र जघन्यपदे द्वौ बन्धहेत् । चतुर्णामन्यतमः संज्वलनो नवानामन्यतमो योगश्रेति । अत्र चतुर्णां नवभिर्गुणने पत्रिंशद् भङ्गाः । उत्कृष्टपढ़े यो बन्धहेतवः । तत्र द्वौ प्रागुक्तावेव तृतीयस्त्वन्यतमो वेदः | अनिवृत्तिवादरो हि यावत् पुंवेद-संज्वलनचतुष्करूपप्रकृतिपञ्चकवन्धकस्तावद्वेदोदयोऽपि तस्यास्तीति । ततः पट्त्रिंशद् वेदत्रयेण गुण्यन्ते, जातमष्टोत्तरं शतम् । सर्वेऽप्यनि वृत्तिवादरे भङ्गाचतुश्चत्वारिंशं शतम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56