Book Title: Bandhhetubhangprakaranam
Author(s): Yashovijay Upadhyay, Shilchandrasuri
Publisher: Yashobhadra Shubhankar Gyanshala Godhra
View full book text ________________
૧૨
तानि युगलद्विकेन गुण्यन्ते, जातानि द्वाविंशतिशतान्यशीत्यधिकानि । तानि कषायचतुष्टयेन गुण्यन्ते, जातानि विंशत्यधिकान्येकविंशति(?न्येकनवति )शतानि । एतावन्तो दशवन्धहेतूनां सासादने भङ्गाः ।
त एव दश बन्धहेतवः कायद्वयवधपरिग्रहादेकादश । तत्र पण्णां कायानां द्विकसंयोगे भङ्गाः पञ्चदश, तान् कायवधस्थाने स्थापयित्वोक्तक्रमेणाङ्कताडने द्वाविंशतिसहस्राण्यष्टशताधिकानि लभ्यन्ते । अथवा त एव दश भयप्रक्षेपादेकादश, तत्र भङ्गाः प्राग्वदेकनवतिशतानि विंशत्यधिकानि । एवं जुगुप्साप्रक्षेपेऽपि । सवसङ्खयगैकादशबन्धहेतूनां भङ्गा एकचत्वारिंशत्सहस्राणि चत्वारिंशदधिकानि ।
__त एव दश कायत्रयवधपरिग्रहे द्वादश । त्रिकसंयोगे च भङ्गा विंशतिरिति तदन्धितोक्ताङ्कताडने लब्धानि त्रिंशत्सहस्राणि चतुःशताधिकानि । अथवा भयकायद्वयवधोपादाने द्वादश, तत्र भङ्गा अष्टशताधिकानि द्वाविंशतिसहस्राणि । एवं कायद्वयवध-जुगुप्साप्रक्षेपेऽपि । यद्वा भय-जुगुप्माप्रक्षेपाद् द्वादश, तत्रैकविंशति (नवति) शतानि विंशत्यधिकानि। भङ्गानां च सर्पसङ्ख्यया द्वादशवन्धहेतुभङ्गाः पञ्चाशीतिसहस्राणि विशं च शतम् ।
त एव दश कायचतुष्टयवधपरिग्रहे त्रयोदश । चतुष्कसंयोगे च भङ्गाः पञ्चदशेति प्राग्वद् गुणने भङ्गा द्वाविंशतिसहस्राण्यष्टौ च शतानि । अथवा भयकायत्रयवधप्रक्षेपात् त्रयोदश । तत्र भङ्गानां त्रिंशत्सहस्राणि चतुःशताधिकानि । एवं कायत्रयवध-जुगुप्साप्रक्षेपेऽपि । यद्वा कायद्वयवध--भय-जुगुप्साप्रक्षेपे त्रयोदश। तत्र भङ्गा द्वाविंशतिसहस्राण्यष्टौ च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56