Book Title: Bandhhetubhangprakaranam
Author(s): Yashovijay Upadhyay, Shilchandrasuri
Publisher: Yashobhadra Shubhankar Gyanshala Godhra
View full book text ________________
ततो मिथ्यात्वभेदैः पञ्चभिः पञ्चदश गुण्यन्ते, जाता पञ्चसप्ततिस्तया पञ्चेन्द्रियाणि गुण्यन्ते, जातानि त्रीणि शतानि पञ्चसप्तत्यधिकानि । तैयुगलद्विकं गुण्यते, जातानि सप्त शतानि पञ्चाशदधिकानि । तैस्त्रयो वेदा गुण्यन्ते, जातानि द्वाविंशति शतानि पश्चाशदधिकानि । तैः कषायचतुष्टयं गुण्यते, लब्धानि नव सहस्राणि । तानि चैकैकस्मिन् योगे प्राप्यन्त इति तैर्दशानां या (यो) गानां गुणने जातानि नवतिसहस्राणि । सर्वसङ्ख्यया मिथ्यादृष्टावेकादशवन्धहेतुभङ्गानां द्वे लक्षे अष्टाशीतिसहस्राणि २८८००० ।
त एव पूर्वोक्ता दश बन्धहेतयो भयजुगुप्साप्रपाद् द्वादश । तत्र भङ्गाः प्राग्वत् पटत्रिंशत्सहस्राणि । अथवाऽनन्ता नुबन्धि-भयप्रक्षेपावादश, [अनन्तानुवन्ध्युदये च योगास्त्रयोदशेत्यत्र भङ्गाः षट्चवारिंशत्सहस्राण्यष्टशताधिकानि । यद्वाऽनन्तानुवन्धि-जुगुप्साप्रक्षेपाद् द्वादश, अत्राप्येतावन्त एव भङ्गाः ४६८०० । अथवा कायत्रयवधग्रहाद् द्वादश । पण्णां च पदानां त्रिकसंयोगे विंशतिभङ्गास्ततः पञ्चभिमिथ्यावभेदै (:) कायवथा विंशतिगुण्यन्ते, जातं शतं; तेन पञ्चेन्द्रियाऽसंयमगुणने पञ्च शतानि; तैयुगलद्विकगुणंते(णने)न सहस्रं तेन वेदत्रयगुणने सहस्रत्रयं; तेन कषायचतुष्टयगुणने द्वादश सहस्राणि; तैर्योगदशकताडने जातं लक्षमेकं विंशतिसहस्राधिकम् । अथवा कायद्वयवध-भयप्रक्षेपाद् द्वादश । तत्र भङ्गा नवतिसहस्राणि । एवं जुगुप्सा-कायद्वयवधेऽपि प्रक्षिप्ते ज्ञेयम् । अथवाऽनन्तानुवन्धी(न्धि) - कायद्वयवधप्रक्षेपे द्वादश । तत्र च कषायताडनलब्धानां नवसहस्राणां त्रयोदशयोगैर्गुणने भङ्गसङ्ख्या लक्षमेकं सप्तदश च सहस्त्राणि । सर्वसङ्ख्यया द्वादशहेतुभङ्गाः पञ्च लक्षाः षट्चखारिंशत्सहस्राणि पट्शतानि च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56