Book Title: Bandhhetubhangprakaranam
Author(s): Yashovijay Upadhyay, Shilchandrasuri
Publisher: Yashobhadra Shubhankar Gyanshala Godhra
View full book text ________________
द्वावुत्कर्षतस्त्रयः । सूक्ष्मसम्परायेऽजघन्योत्कृष्टौ द्वौ । शेषाणामेकैकः ।
9
तत्र मिथ्यादृष्टौ दश तावदिमे - पञ्चानां मध्ये एकतमं मिथ्यात्वं यदै ककायं हन्ति तदै ककायघातः, यदा तु द्वावन्यतमौ हन्ति तदा द्विकघातः, एवं त्रिकादिघाता अप्यूाः । एतेषां पण्णां वातभेदानां मध्ये एकोऽन्यतमो वातभेदः पञ्चानामक्ष (क्षा) णामन्यतमस्याक्षस्याऽसंयमः । हास्यरत्योररतिशोकयोवान्यतरस्य युगलस्योदयः । त्रयाणां वेदानामन्यतमस्यैकस्य वेदस्योदयः । अनन्तानुबन्धिवजनां कपायाणामन्यतमस्य च क्रोधादित्रिकस्य । क्रोधमानमायालोभा हि युगपन्नोदयमायान्ति, किन्तु क्रमेणैव । केवलमेकस्मिन्नप्रत्याख्यानादिके क्रोधादित्रि के उदीयमाने शेषा अपि क्रोधादय उदयमायान्ती - त्यन्यतमक्रोधादित्रिकग्रहणम् । तथा दशानां योगानामन्यतमो योगः । आहारकद्विकं यत्र न भवत्येव । अनन्तानुबन्धिनामनुदय एव च दश बन्धहेतुभेदाः संभवन्ति । तदनुदयश्च यः सम्यग्दृष्टिः प्रथमतोऽनन्तानुबन्ध्युगलनं कृत्वैव विश्रान्तो, न मिथ्यात्वादिक्षयाय तथाविधसामग्र्य भावादुद्युक्तवान् ततःकालान्तरे मिध्यात्वं गतस्तत्प्रत्ययतो भूयोऽप्यनन्तानुबन्धिन उपचिनोति । तेषु चोपचीयमानेषु प्रतिसमयं शेषचारित्रमोहप्रकृतिदलिकं संक्रमयति । संक्रमय्य चाऽनन्तानुबन्धितया परिणमयति । ततो यावन्न संक्रमावलिका [न]तिक्रामति तावत्तस्य मिथ्यादृष्टेरपि सतो [ ऽनन्तानुबन्ध्यनुदयो ? ] भवति । अनन्तानुबन्ध्युदयाभावे च मिध्यादृष्टेर्मरणं सत्कमादिग्रन्थेषु प्रतिषिद्धं ततो भवान्तरगमनसम्भविनो वैक्रियमिश्रौदारिक मिश्रकार्मणकाययोगा न भवन्तीति दशानां योगा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56