Book Title: Bandhhetubhangprakaranam
Author(s): Yashovijay Upadhyay, Shilchandrasuri
Publisher: Yashobhadra Shubhankar Gyanshala Godhra
View full book text ________________
पृथिव्यादावीदृशारम्भरक्षाविषयविवेकेन यतनाया अभावान्न तदसंयमनिवृत्तिः । नापीह कार्मणौदारिकमिश्रसम्भवः । ते हि यथाक्रमं भवापान्तरालगतौ परभवोत्पदे(त्पाद )काले च लभ्येते, न च तदानीं देशविरतिसम्भव इति षट्चत्वारिंशतः सप्तापनयनादि हैकोनचत्वारिंशद्वन्धहेतव उपपद्यन्त इति । अविरत्येकादशक-प्रत्याख्यानावरणचतुष्टयापनयनादाहारकद्विकोदयाच प्रमत्ते पविंशतिः । अप्रमत्तस्य लब्ध्यनुपजीवनादाहारकवक्रियारम्भाऽसम्भवादाहारकमिश्र-चैक्रियमिश्रे न सम्भवत इति पइविंशतेई यापनयनाचतुर्विशतिः। अपूर्व करणे वक्रियाहारके अपि न भवत इति द्वाविंशतिः । हास्यादिषटकस्याऽपूर्व करणे व्यवच्छेदादनिवृत्तिवादरे पोडश । वेदत्रयस्य क्रोधादित्रयस्य चाऽनिवृत्तिबादरे व्यवच्छेदात् सूक्ष्मसम्पराये दश । लोभस्य सूक्ष्मसम्पराय एव व्यवच्छेदादुपशान्तमोहे नव । क्षीणमोहेऽप्येत एव नव । सयोगिजिने सप्त, आद्यान्तौ वाग्-मनोयोगी कार्मणझौदारिकमि च । तत्र कार्मणौदा- : रिकमिश्रे समुद्घातावस्थायाम् । अयोगिनि नैकोऽपि बन्धहेतुः। तदेवमुक्ताः सम्भवमात्रेण मिथ्यात्वाद्यवान्तरभेदा गुणस्थानेषु । अथैत एव यावन्तो यस्मिन् गुणस्थानके जघन्य [मध्य] मोत्कृष्टपदेष्वेकदा प्राप्यन्ते तस्मिंस्तावन्त उच्यन्ते ।
तत्र मिथ्यादृष्टौ जघन्यपदे युगपद्भाविनो बन्धहेतवो दश, उत्कृष्टपदेऽष्टादश, मध्यमास्त्वेतदन्तर्गताः । एवमुत्तरत्रापि मध्यमभावना कार्या । सासादने जघन्यपदे दश, उत्कृष्टपदे सप्तदश । मिश्राऽविरतयोर्जधन्यतो नव, उत्कपतः पोडश । देशविरते जघन्यपदेऽष्टौ, उत्कृष्टपदे चतुर्दश । यतित्रिके जघन्यतः पञ्च उत्कः तः सप्त । अनिवृत्तिबादरे जघन्यतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56