________________
श्रीशङ्केश्वरपार्श्वनाथाय नमो नमः ।।
नमो नमः श्रीगुरुनेमिसूरये ॥ न्यायविशारद - न्यायाचार्य - महोपाध्याय
श्रीयशोविजयजीगणिभिः प्रणीतं
प्रकरणम् ऐ नमः ॥ ऐन्द्रवृन्दनतं नत्वा
वीरं तत्त्वार्थदेशिनम् । स्वान्योपकृतये बन्ध
हेतुभङ्गान् प्रचक्ष्महे ॥१॥ तत्र मिथ्यात्वाऽविरतिकषाययोगा बन्धहेतवः । तत्त्वार्थाऽश्रद्धानं मिथ्यात्वम् । तत् पञ्चधा, आभिग्रहिकमनाभिग्रहिकमाभिनिवेशिकं सांशयिकमनाभोगं चेति । तत्रेदमेव दर्शनं शोभनं नान्यदित्येवंरूपेण कुदर्शनाभिग्रहेण निवृत्तमाभिग्रहिकम्, यथा बोटिकादिकुदर्शनग्रहः । तद्विपरीतमनाभिग्रहिकं, यथा सर्वाणि दर्शनानि शोभनानीत्यभ्युपगमः । न चेदमंशे विपर्ययाविपर्ययरूपत्वात् सम्यमिथ्यात्वं स्यात् ; सींशविपर्ययाविपर्ययरूपत्वाभावाद् भेदान्तरं वा स्यादिति शङ्कनीयम् । विषर्ययमात्रस्यैव मिथ्यात्वलक्षणत्वात् , सींशतत्त्वरुचिरूपस्यैव च सम्यक्त्वलक्षणत्वात् । ____ अभिनिवेशो जानतोऽतिस्वमतिकल्पनया तत्त्वविप्लवस्तेन निर्वृत्तमाभिनिवेशिकं यथा गोष्ठामाहिलादीनाम् । भगवदुक्तं धर्मास्तिकायादि सत्यं नवेत्यादिसंशयेन निर्वृत्तं सांशयिकम् । आभोगेन सदसत्परिभावनलक्षणेन रहितमनाभोगं, तच्चैकेन्द्रियादीनाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org