________________
अविरतिः षट्कायवधान्तःकरणेन्द्रियानियमभेदाद् द्वादशधा । तत्र कायवधः पृथिव्यादिविषययतनाऽभावः । अन्तः करणाद्यनियमश्वानिवारिता स्वस्वविषयप्रवृत्तिः।
___ कपायाः पोडशकषाय-नवनोकषायभेदैः पञ्चविंशतिधा । तत्र क्रोधमानमायालोभाश्चत्वार एव कषाया अनन्तानुबन्ध्य[प्रत्याख्यान-] प्रत्याख्यानावरण-संज्वलनभेदैः पोडश भवन्ति । तत्राऽनन्तं संसारमनुवघ्नन्तीत्यनन्तानुवन्धिनः । एषां च संयोजना इति द्वितीयमप्यस्ति नाम, संयोज्यन्तेऽनन्तै वर्जन्तवा यैस्ते संयोजना इति व्युत्पत्तेः । न विद्यते स्वल्पमपि प्रत्याख्यानं येषामुदयात्तेऽप्रत्याख्यानः (नाः)। प्रत्याख्यानं सर्व विरतिरूपमात्रियते यैस्ते प्रत्याख्यानावरणाः । परीषहोपसगनिपाते सति चारित्रिणमपि सं-ईपज्ज्वलयन्तीति संज्वलनाः ।
कपायैः सहचारिणी नोकपायाः । नाशब्दस्य साहचर्यवाचित्वात् । कैः कपायैः साहचर्य मिति चेदाद्यैादशभिः, तत्क्षयानन्तरमेव ता(ना)कपायक्षपणाय क्षपकस्य प्रवृत्तेः । ते च वेदत्रिक-हास्यादिषट्कभेदानवधा । पुंवेदः स्त्रीवेदा नपुंसकवेदश्चेति वेदत्रिकम् । हास्यरत्यरतिभयशोकजुगुप्सा हास्यादिषट्कम् ।
योगः(गाः)पञ्चदश । चतुर्की मनोवचसी सप्तधा च काययोग इति । तत्र मनः सत्यमसत्यं सत्यासत्यमसत्यामृषा चेति चतुर्की । तत्र वस्तुप्रतिष्ठासया जिनमतानुसारेण यद्विकल्पतेऽस्ति जीवः सदसद्रूप इत्यादि, तदाराधकत्वात् सत्यं परिभाषितम् । यत्र जिनमतोत्तीर्ण विकल्प्यते 'नास्ति जीव' इत्यादि, तदसत्यम्, विराधकत्वात् । धवखदिरपलाशादिमिश्रेषु बहुष्वशोकवृक्षेष्वशोकवनमेवेदमितिविकल्पनपरं सत्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org