________________
सत्यम् । अत्र हि कतिपयाशोकवृक्षाणां सद्भावात् सत्यताऽन्येपामपि धवादीनां सद्भावादसत्यता । व्यवहारनयमतापेक्षया चैव मुच्यते, परमार्थतस्त्वभिप्रेतान्यनिषेधादसत्यमेवेदम् । अशोकप्राधान्यविवक्षया भावसत्यमेव वा । उत्पन्न मिश्रादिवचनं तु सङ्ख्याशब्दानां पर्याप्त्याऽन्वयबोध एव साकाङ्क्षत्वादसत्यमेव । वस्तुप्रतिष्ठासामन्तरेण स्वरूपमात्रपालोचनपरं 'हे देवदत्त ! घटमानये' त्यादिविकल्पकं मनोऽसत्यामृषम् । इदं हि न यथोक्तलक्षणं सत्यं नापि मृषेति । इदमपि व्यवहारनयमतापेक्षया द्रष्टव्यं, तत्त्वतस्तु विप्रलिप्सादिपूर्वकं असत्येऽन्तर्भवति, अन्यत्तु सत्ये ।
इत्थमेव वचोऽपि चतुर्दाऽवसेयम् ।
काययोग औदारिक क्रियाहारक-तत(तत्त)न्मिश्र ३ कार्मणयोगभेदात् सप्तविधः । तत्रोदारं तीर्थकरादिशरीरापेक्षया प्रकृत्या बृहत्प्रमाणं वा । उदारमेवौदारिकम् । औदारिकमिश्रं नरतिरश्चामपर्याप्तावस्थायां केवलिनः केवलिसमुद्घातावस्थायां वा । विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियम् । तच्च द्विधा - औपपातिकं लब्धिप्रत्ययं वा (?च)। आयं देवनारकाणां द्वितीयं नरतिरश्वाम् । वक्रियमिश्रं देवनारकाणामपर्याप्तावस्थायाम् । नरतिरश्चां च वैक्रियप्रारम्भकाले । तत्परित्यागकालेऽपीति केचित् । जिनद्धिदर्शनादिहेतोल ब्धिविशेषवशादाहियत इत्याहारकम् । तच्च वैक्रियादत्यन्तशुभं स्वच्छस्फटिकशिलाभम् । आहारकमिश्रमाहारकस्य प्रारम्भकाले । तत्परित्यागकालेऽपीति केचित् । कमैव कार्मणम् । तच्च जन्तोर्गत्यन्तरसंक्रान्तौ साधकतमम् । अस्ति चाऽन्यत्तैजसमपि शरीरं यद्भुक्ताहारपरिणमनहेतुर्विशिष्टतपोलब्धिकस्य तेजोलेश्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org