________________
विनिर्गमहेतुश्च, परं तत् कार्मणेन सहाऽव्यभिचारीति तद्योगः पृथग् न गृहीतः।
तदेवमुक्ता मिथ्यात्वाद्यवान्तरभेदाः । अथ मिथ्यात्वादयो मूलभेदा गुणस्थानेष्वभिधीयन्ते ।
तत्र मिथ्यादृष्टिगुणस्थाने चतुःप्रत्ययो बन्धस्तत्र मिथ्यात्वाविरतिकपाय[योग]लक्षणानां चतुर्णामपि हेतूनां सत्त्वात् । मिश्रे सासादनेऽविरतसम्यग्दृष्टौ च मिथ्यात्वाभावात् त्रिप्रत्ययकः । देशविरते किञ्चिन्न्यूनत्रिप्रत्ययकः, तस्य त्रसासंयमाभावात् । प्रमत्तादारभ्य सूक्ष्मसम्पराय यावद् द्विप्रत्ययकः, प्रमत्तादीनां मिथ्यात्वाऽविरत्यभावात् । उपशान्तमोहादित्रये केवलयोगप्रत्ययः, अयोगी तु अवन्धक इत्युक्ता गुणस्थानेषु बन्धहेतुमूलभेदाः । अथ तेष्वेव यथासम्भव तदवान्तरभेदा उच्यन्ते । -
तत्र मिथ्यादृष्टिगुणस्थाने आहारकद्विकरहिताः पञ्चपञ्चाशद्वन्धहेतवः । आहारकद्विक तु संयमवतामेव भवतीति न तत्र तत्सम्भवः । सासादने मिथ्यात्वापगमात् पञ्चाशत् । सम्य ग्मिथ्यादृष्टौ त्रिचत्वारिंशत् , यतोऽत्रानन्तानुबन्ध्युदयाभावः, न चात्र परलोकगमनसम्भवि कार्मणौदारिकमिश्रवैक्रियमिश्रसम्भवः, “न सम्ममिच्छो कुणइ काल " मिति वचनेनास्य परलोकगमननिषेधात् । ततः पञ्चाशतः सप्तकापनयने त्रिचत्वारिंशदेव भवन्तीति । अविरतसम्यग्दृष्टौ पट्चत्वारिंशत् । यतोऽस्य परलोकगमनसम्भवेन प्रागपनीतं योगत्रयं लभ्यते । देशविरतावेकोनचत्वारिंशत् । येनात्र प्रत्याख्यानकषायोदयो न च त्रसासंयमः, सङ्कल्पजात्तस्मानिवृत्तेरारम्भेऽपि यतनया प्रवर्तमानत्वेन तन्निमित्तस्य त्रसासंयमस्य सतोऽप्यविवक्षणात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org