Book Title: Avashyak Sutram
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 330
________________ मुनितोषणी टीका, प्रतिक्रमणाध्ययनम्-४ ॥ छाया ॥ केऽपि भणन्ति मूढाः, संयमयोगानां कारणं नैवम् । रजोहरणमिति प्रमार्जनादिमिरुपघातभावात् ॥ १ ॥ मूइङ्गलिकादीनां, विनाशसन्तानभोग्यविरहादयः । रजोदरिस्थगनसंसर्जनादिना भवत्युपघातः ॥ २ ॥ प्रत्युपेक्ष्य प्रमार्जन,-मुपघातः कथं नु तत्र भवेत् । अपमृज्य च दोषा वा आदावागाढव्युत्सर्गे ॥ ३ ॥ आत्मपरपरित्यागो द्विधापि शास्त्रस्य (शासितुः) अकौशलं नूनम् । संसर्जनादिदोषा देहे इव अविधिना नो भवन्ति ॥ ४ ॥ इत्यास्तां विस्तरः, प्रकृतमनुस्रियते-मुखवत्रिका-वायुकायादियतनार्थ मुखोपरि दवरकेण बन्धनीयमष्टपुटमुपकरणम् , गुच्छकः पात्रादिपमार्जनीविशेषः, पूँजनी' इति भाषापसिद्धः, प्रतिगृह्णाति भक्तपानादिकं स्वस्मिन्नाधत्त इति प्रतिग्रहः भक्तपानादिपात्रम् , रजोहरणं च मुग्ववत्रिका च, गुच्छकश्च प्रतिग्रहश्चेति रजोहरणमुखवत्रिकागुच्छकप्रतिग्रहास्तान् धरन्ते ये ते रजोहरण-मुग्ववत्रिकागुच्छक-प्रतिग्रहधाराः । इत्थं निवादयोऽपि संभवन्तीति तदपाकरणार्थमाह'पंचमहन्मयधारा' पश्चमहाव्रतानिमाणातिपाताऽनृतभाषणाऽदत्ताऽऽदाना-ऽब्रह्मचर्यपरिग्रहव्युपरमलक्षणानि धरन्त इति पञ्चमहाव्रतधाराः । न केवलमेत एव किन्तूक्तगुणविशिष्टाः सन्तोऽपि- अट्ठारससहस्ससीलंगधारा' अष्टादशसहस्रशीलागधाराः । अष्टादशशीलाङ्गसहस्राणि तु यथा-यो न करोति मनसाऽऽहारसज्ञाविप्रयुतः श्रोत्रेन्द्रियसंवृतः शान्तिसम्पन्नः पृथिवीकायारम्भम् (१), एवमकायारम्भम् (२), तेजस्कायारम्भम् (३), वायुकायारम्भम् (४), वनस्पतिकायारम्भम् (५), द्वीन्द्रियारम्भम् (६), त्रीन्द्रियारम्भम् (७), चतुरिन्द्रियारम्भम् (८), पश्चेन्द्रियारम्भम् (९), अजीवारम्भं च (१०)। एते क्षान्तिपदेन १-'........धाराः' कर्मण्यण् । २-निहनुवत इति निवाः, पचादेराकृतिगणलात्कर्तर्यच, यद्वा निहवः = अपलापोऽस्त्येषामिति निवाः, निदवशब्दादर्श आदिस्वान्मत्वर्थीयोऽच, सज्ञेयं तान्त्रिकी । ३.-'........धाराः' कर्मण्यण् ।

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405