________________
मुनितोषणी टीका, प्रतिक्रमणाध्ययनम्-४
॥ छाया ॥ केऽपि भणन्ति मूढाः, संयमयोगानां कारणं नैवम् । रजोहरणमिति प्रमार्जनादिमिरुपघातभावात् ॥ १ ॥ मूइङ्गलिकादीनां, विनाशसन्तानभोग्यविरहादयः । रजोदरिस्थगनसंसर्जनादिना भवत्युपघातः ॥ २ ॥ प्रत्युपेक्ष्य प्रमार्जन,-मुपघातः कथं नु तत्र भवेत् । अपमृज्य च दोषा वा आदावागाढव्युत्सर्गे ॥ ३ ॥ आत्मपरपरित्यागो द्विधापि शास्त्रस्य (शासितुः) अकौशलं नूनम् । संसर्जनादिदोषा देहे इव अविधिना नो भवन्ति ॥ ४ ॥
इत्यास्तां विस्तरः, प्रकृतमनुस्रियते-मुखवत्रिका-वायुकायादियतनार्थ मुखोपरि दवरकेण बन्धनीयमष्टपुटमुपकरणम् , गुच्छकः पात्रादिपमार्जनीविशेषः, पूँजनी' इति भाषापसिद्धः, प्रतिगृह्णाति भक्तपानादिकं स्वस्मिन्नाधत्त इति प्रतिग्रहः भक्तपानादिपात्रम् , रजोहरणं च मुग्ववत्रिका च, गुच्छकश्च प्रतिग्रहश्चेति रजोहरणमुखवत्रिकागुच्छकप्रतिग्रहास्तान् धरन्ते ये ते रजोहरण-मुग्ववत्रिकागुच्छक-प्रतिग्रहधाराः । इत्थं निवादयोऽपि संभवन्तीति तदपाकरणार्थमाह'पंचमहन्मयधारा' पश्चमहाव्रतानिमाणातिपाताऽनृतभाषणाऽदत्ताऽऽदाना-ऽब्रह्मचर्यपरिग्रहव्युपरमलक्षणानि धरन्त इति पञ्चमहाव्रतधाराः । न केवलमेत एव किन्तूक्तगुणविशिष्टाः सन्तोऽपि- अट्ठारससहस्ससीलंगधारा' अष्टादशसहस्रशीलागधाराः । अष्टादशशीलाङ्गसहस्राणि तु यथा-यो न करोति मनसाऽऽहारसज्ञाविप्रयुतः श्रोत्रेन्द्रियसंवृतः शान्तिसम्पन्नः पृथिवीकायारम्भम् (१), एवमकायारम्भम् (२), तेजस्कायारम्भम् (३), वायुकायारम्भम् (४), वनस्पतिकायारम्भम् (५), द्वीन्द्रियारम्भम् (६), त्रीन्द्रियारम्भम् (७), चतुरिन्द्रियारम्भम् (८), पश्चेन्द्रियारम्भम् (९), अजीवारम्भं च (१०)। एते क्षान्तिपदेन
१-'........धाराः' कर्मण्यण् ।
२-निहनुवत इति निवाः, पचादेराकृतिगणलात्कर्तर्यच, यद्वा निहवः = अपलापोऽस्त्येषामिति निवाः, निदवशब्दादर्श आदिस्वान्मत्वर्थीयोऽच, सज्ञेयं तान्त्रिकी ।
३.-'........धाराः' कर्मण्यण् ।